________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
जैनेन्द्र-व्याकरणम्
[म. १ पा० ३ सू० ६६-६६
कुमारी प्रव्रजिता कुमारप्रव्रजिता । कुमारश्च स अध्यापकश्च स कुमाराध्यापकः। कुमारी अध्यापिका कुमाराध्यापिका । श्रमणा प्रव्रजिता कुलटा गर्भिणी तापसी बन्धकी दासी एते स्त्रीलिङ्गाः। अध्यापक अभिरूपक पटु मृदु पण्डित कुशल चपल निपुण ।
मयूरन्यंसकादयश्च ॥१॥३॥६६॥ मयूरव्यंसकादयश्च शब्दा गणपाठादेव निपातिताः षसंज्ञा भवन्ति । विशिष्टावंसावस्य व्यंसः । इवार्थे कः। व्यंसको मयूरो मयूरव्यंसकः। छत्रव्यंसकः । कम्बोजमुण्डः । यवनमुण्डः । एतेषु परनिपातः प्रयोजनम् । “एडीडादयोऽन्यपदार्थे ।' एहीडमिति यत्र कर्मणि एहि यवैरिति एहीडम् । "हियवं वर्तते । एहिवाणिजेति यस्यां क्रियायां सा एहिवाणिजा। प्रेहिवाणिजा' । एहिस्वागता । अपेहिस्वागता। एहिद्वितीया । अपेहिद्वितीया । प्रोहकटमस्यां प्रोहकटा । प्रोहकर्दमा । उद्धमचूडा । श्राहरचेला । अाहरवसना । अाहरवितता | भिन्धिप्रलवणा । उद्धर उत्सृजेति यस्यां सा उद्धरोत्सृजा । उद्धमविधमा । उद्धरविसृजा । उत्पतनिपता। उत्पचनिपचा। श्राख्यातमाख्यातेन सिद्ध ऽप्यसातत्यार्थ वचनम् । उदक्च अवाक्च उच्चावचम् । उच्चैश्च नीचैश्च उच्चनीचम् । अाचितञ्चोपचितञ्च प्राचोपचम् । आंचितपराचितस्य पाचपराचम् । निश्चितप्रचितस्य निश्चप्रचम् । अकिञ्चनम् । स्नात्वाकालकः । पीत्वास्थिरकः । भुक्त्वासुहितः । प्रोष्यपापीयान् । उत्पत्यपाकला जाता। निपत्यरोहिणी जाता । निषद्यश्यामा जाता । अपेहिप्रघसा वर्तते । इहपञ्चमी । इहद्वितीया । 'जहि कर्नणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति ।" जहि जोडमित्याह जहिजोडः। उज्जहिजोडः। जहिस्तम्बः । बहलमिति किम् ? पचौदनम् । "पाख्यानमाख्यातेन सातत्ये।" अश्नीतपिबता वर्तते । पचतभृज्जता । मदतमोदता । खादाचामाः। श्राहरविवसा । श्राहरनिष्किरा । अविहितलक्षणं सविधानमिह द्रष्टव्यम् । तेन शाकप्रधानः पार्थिवः शाम्पार्थिवः । कुतपसौश्रुतः । अजातौल्वलिः । धृतरौढीयाः । अोदनपाणिनीया इत्येवमादि सिद्धम् । चकारोऽवधारणार्थः । परमो मयूरव्यंसकः । वृत्त्यन्तरं न भवति ।
काला मेयैः ॥११३१६७॥ कालवाचिनः शब्दा मेयैः परिच्छेद्यः सह समस्यन्ते षसो भवति । मेयैरिति सम्बन्धात् काला मानवचना गृह्यन्ते । यद्यपि मुख्यं मानव व्यवहारकालस्य मासादेर्न सम्भवति तथापि वचनात् परिच्छेदहेतुत्वमानं साधर्म्यमुपादायोपचारात् कालः परिमाणम् । मासादयो जातादेः सम्बन्धिनीमादित्यगति परिच्छिन्दन्तीति जातस्यापि परिच्छेदहेतव उच्यन्ते । एकाश्रय इति निवृत्तम् । मासो जातस्य मासजातः। संवत्सरजातः। तासापवादोऽयम् । काला इति बहुवचननिर्देशः किमर्थः ? द्वे अहनी जातस्य द्वथहजातः । त्रिपदोऽपि षसो यथा स्यात् । “हृदर्थधु समाहारे।' [१२४६] इत्यवयवषसे “राजाहःसखिभ्यष्टः" [२३] इति टः । “एभ्योऽह्वोऽह्नः [४।२।६०] इति अह्लादेशः । यदा द्वयोरह्नोः समाहार इति विग्रहस्तदा "न समाहारे" [२।६१] इत्यहादेशप्रतिषेधः सिद्धः। द्वयहो जातस्य द्वयत्जातः । त्यहजातः ।
नन ॥१३६८॥ नञ् सुपा सह समस्यते घसो भवति । अब्राह्मणः । अधर्मः। असर्वज्ञः । अगौः। नेयं पूर्वपदार्थप्रधाना वृत्तिरलिङ्गासंख्यत्वप्रसङ्गात् । किञ्च पूर्वपदप्रधानो हस उक्तः । अमक्षिा कमिति । अन्यपदार्थप्राधान्ये तु अवर्षा हेमन्त इत्यत्र प्रादेशादि प्राप्नोति । अस्तूत्तरपदाथप्रधानेयं वृत्तिः । यद्ये वमगामानयेत्युक्त ऽगोमात्रस्यानयनं स्यात् । अथ स्वयमेव निवृत्तिपदार्थको गोशब्दः स नत्रा केवलं द्योत्यते । एवं सति न कस्यचिदानयनं स्यात् । नायं दोषः । द्वाविह गोशब्दो प्रवृत्तपदार्थको निवृत्तपदार्थकश्च । सारूप्यात्तयोर्भेदापरिज्ञाने निवृत्तपदार्थकस्य द्योतनार्थ नत्रःप्रयोगः प्रतिषेधे सत्युत्तरपदार्थसहशो वृत्यर्थो जायते । "नजिवयुक्तमन्यसइशाधिकरणे तथा ह्यर्थगतिः" [परि०] इति वचनात् । श्रन्यपदार्थे तु परत्वादसो भवति । अशालिको देशः । अकारो नञोऽनित्यत्र विशेषणार्थः । वामनपुत्रादिष्वनादेशो मा भूत् ।
गुणोक्त्येषद् ॥१॥३॥६६॥ उच्यते इत्युक्तिः शब्दः । गुणशब्देन सह ईषच्छब्दः समस्यते पसो भवति । ईषत्कडारः। ईषत्पिङ्गलः । ईषद्विकटः । ईषदुन्नतः । ईषद्रतः। ईषत्पीतः। हृदुत्पत्तिः प्रयो
१. वाणिजा । अपेहिवाणिजा । एहिस्वा-१०, ब०, स० । २. निषण्णरयामा मु.।
For Private And Personal Use Only