________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७
म. पा० ३ ० ६१-६५] महावृत्तिसहितम् च इभ्यपोटा । इभ्येति जातिशब्दः । स्त्री भूत्वा राज्यपालनार्थ या पुंवेषेण युज्यते सा पोटा । यापि गर्भ एव दास्यं गता साऽपि पोटा । "स्त्र्युक्तस्क" [१।३।१४६] इत्यादिना पुंवद्भावे प्राप्ते “जातिश्च' [४।३।११३] इति प्रतिषिद्ध “पुवद्यजातीयदेशीये" [४।३।१५४] इति पुंवद्भावः । एवमार्यपोटा । युवतिस्तरुणी । इभ्ययवतिः। त्रिययवतिः। अग्निश्च स स्तोका तदग्निस्तोकम । दधिच त कतिपयञ्च दधिकतिपयम। स्तोककतिपयशब्दावेकार्थे । सकृत्प्रसूता गृष्टिः । गोश्च सा गृष्टिश्च गोष्टिः। धेनुरभिनवप्रसवा । गोधेनुः । वशा वन्ध्या । गोवशा। वेत् गर्भघातिनी। गर्भधारिणीत्यन्ये । गोहत् । महता वत्सेन या दह्यते सा बकयिणी। गोबष्कयिणी। प्रवक्ता उपाध्यायः। कठप्रवक्ता। कठश्रोत्रियः। अध्यापकोऽध्येता। कठाध्यापकः। कठधूर्तः । बुद्धिमानित्यर्थः । धूर्तग्रहणमिहाकुत्सार्थम् । अथवा श्राश्रयिषु कुत्सितेषु तद्भवति । आश्रयेषु तु कुत्स्येषु इदम् । ब्राह्मणधूर्तः क्षत्रियधूर्त इति यदा हि ब्राह्मणत्वमाश्रयि कुत्स्यते तदा तेनैव सिद्धं सविधानम । यदा तु तद्य तो देवदत्तः कुत्स्यते तदर्थमिदम् । जातिरिति किम् ? देवदत्तः प्रवक्ता । देवदत्तशब्दस्याजातिवचनत्वादवृत्तिः । जातेर्विशष्यायाः पूर्वनिपातार्थ प्रारम्भः ।
चतुष्पाद्गर्भिण्या ॥२३॥६१॥ जातिरिति वर्तते । चत्वारः पादा यस्याः सा चतुष्पाद्गवादिजातिः । "सुसंख्यादेः [२११४०] इत्यकारस्य खम् । चतुष्पाज्जातिर्गर्भिणीशब्देन सहकाश्रये समस्यते षसो भवति । गौश्च सा गर्भिणी च गोगर्मिणी। अजगर्भिणी । "वद्यजातीयदेशीये' [१॥३।१५५] इति वद्भावः । चतुष्पादिति किम् ? ब्राह्मणी गर्भिणी । जातिरित्येव । कालाक्षी गर्भिणी। स्वस्तिमती गर्मिणी । चतुष्पदः संशैषा । न तु जातिः । विशेष्यस्य पूर्वनिपातार्थं वचनम् ।
प्रशंसोक्तथा ॥१॥३॥६२॥ जातिरिति वर्तते । उच्यते इत्युक्तिः शब्दः । प्रशंसाशब्देन सह जातिवाचि सुबन्तं समस्यते षसो भवति । गौश्च स प्रकाण्डश्च तत् गोप्रकाण्डम् । प्रशस्तो गौरित्यर्थः । एवमश्वप्रकाएडम् । गोमतल्लिका । अश्वमचर्चिका । गोकुमारी । गोतल्लजकः । अभिधा जातिरित्येव । देवदत्ता कुमारी।
युवा खलतिपलितवलिनजरद्भिः ॥१३॥६३॥ खलति पलित वलिन जरदित्यतैरेकाश्रयैयुवशब्दः समस्यते षसो भवति । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती। युवा पलितः युवपलितः। युवतिः पलिता युवपलिता। वलयोऽस्य सन्ति वलिनः । पामादित्वान्नः । युवा वलिनः युववलिनः । युवतिर्वलिना युववलिना। "जषोऽतृ"शश८७] इति अतृत्ये कृते जरदिति भवति । युवा जरन् युवजरन् । युवतिजेरती युवजरती। "मृदग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ।, "वद्यजातीयदेशीये"[ ३४१५४इति पुंवद्भावात् तिशब्दस्य निवृत्तिः ।
व्यतुल्याख्या प्रजात्या ॥२॥३॥६४॥ व्यान्तास्तुल्याख्याश्च अजातिवाचिना सह समस्यन्ते षसो भवति । परनिपातः फलम् । भोज्यश्च तदुष्णश्च भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । हरणीयपूर्णो घटः । तुल्याख्याः । तुल्यश्च स श्वेतश्च स तुल्यश्वेतः । सदृशश्वेतः । तुल्यमहान् । सदृशमहान् । अज किम् ? भोज्य श्रोदनः। तुल्यो वैश्यः । इह तुल्यसन्निति पूज्यत्वाभावात् परत्वादानेन सः । इह कथमेकाश्रया वृत्तिः । कृष्णसारङ्गः। लोहितसारङ्गः। कृष्णशबलः । लोहितशबलः। यदि सारङ्गादिशब्दा जातिवचना जाते. कथञ्चिद्व्यादभिन्नत्वमित्येकाश्रयत्वमस्ति ततो विशेषणलक्षणः सः। अथ पूर्वोत्तरपदयोर्वर्णविशेषवाचित्वं तत्रापीच्छातो विशेषणविशेष्यभावः । कृष्णश्वेतः । श्वेतकृष्णः।
कुमारः श्रमणादिभिः ॥१॥३॥६५॥ कुमारशब्दः श्रमणादिभिः सह समस्यते षसो भवति । कुमारशब्दो मृत् । स्त्रीलिङ्गैरुत्तरपदैः स्त्रीलिङ्गः । अध्यापकादिभिरुभयथा समस्यते । कुमारी श्रमणा कुमारश्रमणा ।
१. मतल्लिका । अश्वमतल्लिका । गोमचर्चिका । गोकुमा-अ० ।-ल्लिका । अश्वमतल्लिका । अश्वम-ब.।
For Private And Personal Use Only