________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
जैनेन्द्र-व्याकरणम्
[अ० १ पा० ३ सू० ५५-६०
विसमाप्तौ क्लोऽनञ् ॥१॥३॥५५॥ विगता समाप्तिः विसमाप्तिः। ईषन्निष्पत्तिरित्यर्थः । अननक्तान्तं विसमाप्ती सामर्थ्यात् क्तान्तेन समस्यते षसो भवति । एकस्यां हि क्रियायां विसमाप्तिर्भवति न क्रिया भेद इति सामर्थ्यम् । क्तान्तस्यानभिति प्रतिषेधान्न पूर्वेणापि क्तान्तेन सविधिः । कृतञ्च तदकृतञ्च कताकुतम् । कृतभागसम्बन्धात् कृतम् । अकृतभागसबन्धात्तदेवाकृतम् । एवं भुक्ताभुक्तम् । पीतापीतम् । अशितानशितम् । क्लिष्टाक्लिशितम् । "क्लिशस्तक्त्वोः " [५/१६८] इति वेट । मुक्तविमुक्तम् । पीतविपोतम् । कृतापकृतम् । विसमाप्ताविति किम् ? सिद्धं चाभुक्तं च । क्रियाभेदे विसमाप्तिास्ति एकस्याः समाप्तत्वादपरस्या अननुष्ठानात् । क्त इति किम् ? कर्तव्यं तदकर्तव्यं च । अनभिति किम् ? अकृतं च तत्कृतञ्च । ननु कृद्ग्रहणे तिकारकपूर्वस्यैव ग्रहणमननिति किमर्थम् ? न पूर्वेणापि वृत्त्यर्थमिति शेषः । इह गतप्रत्यागतः यातानुयात इत्येवमादिषु “पूर्वकालैक" [१॥३॥४४] इत्यादिना धसः ।
सन्महत्परमोत्तमोत्कृष्ट पूज्येन ॥१॥३॥५६॥ सत्-महत्-परम उत्तम-उत्कृष्ट इत्येते सुबन्ताः पूज्यवचनेन सह समस्यन्ते षसो भवति । संश्च सः पुरुषश्च सत्पुरुषः। महापुरुषः । परमपुरुषः । उद्गततमः उत्तमः । अत एव निपातनात् किमेन्मिझिभादामद्रव्ये' [४।२।२०] इत्याम् न भवति । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूज्येनेति वचनादत्र सदादयः पूजावचना ज्ञातव्याः। पूज्येनेति किम् ? उत्कृष्टो गौः। कर्दमादुद्धृत इत्यर्थः।
वृन्दारकनागकुञ्जरैस्तत् ॥१३॥५०॥ पूज्येनेति वर्तमानमर्थवशाद्वान्तं संपद्यते । वृन्दारकादिभिः सह तत् पूज्यवाचिसुबन्तं समस्यते षसो भवति । तदित्यनेन पूज्यवचनेनाभिसम्बन्धात् वृन्दारकादयः पूजावचना गृह्यन्ते । गौश्चासो वृन्दारकश्च गोवृन्दारकः । पुन्नागः । गोकुञ्जरः । अश्वकुञ्जरः । व्याघ्रादेराकृतिगणत्वात् “व्याघ्ररुपमेयेऽतद्योगे'' [३॥३१५] इत्येव सिद्ध सामान्यप्रयोगेऽपि यथा स्यादित्यारम्भः। गोनागो बलवान् । तदिति किम् ? शोभना शीमा फणा अस्य सुशीमो नागः।।
(कतरकतमौ समर्थौ ॥१॥३॥५८॥ किंशब्दात् "किंयत्तदो निर्धारणे द्वयोरेकस्य डतरः" [१७] "वा बहूनां जातिप्रश्ने डतमः" [191१४८] तयोः परतष्टिखे कृते कतरकतमशब्दौ सिद्धयतः। समर्थी सङ्गतार्थों समानार्थावेकार्थावित्यर्थः ) तौ सुबन्तेन सह समस्येते षसो भवति । कदा चानयोः समानार्थत्वं यदा जातिप्रश्ने तौ व्युत्पाद्यते तदा तयोः समानार्थत्वम् । कतरश्च स गार्ग्यश्च कतरगार्ग्यः। कतमगार्ग्यः। कत. रकठः। कतमकठः। वृद्धं चरणैः सहेति जातिवाचित्वम् । समर्थाविति किम् ? कतरो भवतोदेवदत्तः। द्रव्यप्रश्नोऽयम् । समर्थग्रहणं हि कतरस्यैव विशेषणं डतरस्याविशेषेण विधानान्न कतमस्य । डतमस्य जातिप्रश्न एव तैविधानात् । अतः कतमो भवतां देवदत्त इति व्यावृत्त्युदाहरणमत्रानुपपन्नम् । कतरकतमयोः प्रश्ने विहितयोः सविधिना न गार्यादेविशेष्यव्यवस्थेति वचनम् ।
क्षेपे किम ॥१॥३॥५६॥ क्षेपः कुत्सा । यो हि यदर्थत्तस्य तदर्थाननुष्ठानं क्षेपः । किमेतत् क्षेपे गम्ये सुबन्तेन समस्यते षसो भवति । को नाम राजा किंराजा । यो न रक्षति। "न स्वति किमः" ६] इति सान्तप्रतिषेधः। किसखा । योऽभिद्रु ह्यति। किंगौः। यो न वहति । “गोरहृदुपि" [१२।६४] इति सान्ते टे प्राप्ते "न स्वति किमः” [१२।६६] इति प्रतिषेधः । सर्वत्र स्वकार्याभावात् क्षेपः। क्षेप इति किम् ? को राजा पाटलिपुत्रे । किमिति योगविभागः । तेन संज्ञायां शुकादिभिः सह किंशब्दः समस्यते षसो भवति । किंशुकः पलाशः । किंशुलुकः पर्वतः । किंपुरुषो मयुः । किन्नरः स एव । किञल्कः पुष्परेणुः । किङ्किरातः । किंवदन्तीत्यादयः सिद्धाः।
(पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूतर्जातिः ॥१॥ ३६०॥ पोटादीनामितरेतरयोगो द्वन्द्वः। पोटादिभिः सहकाश्रये जातिः समस्यते षसो भवति । विशेषणस्य परनिपावार्थ प्रारम्भः। जातिद्वारेण यः शब्दो द्रव्ये वर्तते स इह जातिशब्दोऽभिप्रेतः। इभ्या च सा पोटा
For Private And Personal Use Only