________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० ३ सू० ५२-५४ ]
महावृत्तिसहितम्
५५
विशेषणं विशेष्येति || १ | ३|५२ || एकाश्रय इति वर्तते । यत् सामान्याकारेण प्रवृत्तं सत् अनेकप्रकाराधारभूतं वस्तु प्रकारान्तरेभ्यो व्यावल्यैकत्र प्रकारे वस्थापयति तद्विशेषणम् । अनेकप्रकाराधारभूतं वस्तु विशेष्यम् । विशेषणं विशेष्यवाचिना सह षसो भवति । कृष्णश्च स कम्बलश्च स कृष्णकम्बलः । लोहिता च सा शाटी च सा लोहितशाटी । श्रद्धञ्च तत् पिप्पली च सा श्रद्धपिप्पली । यदा पिप्यल्यवयवे पिप्पलीशब्दस्तदेयं वृत्तिरेकाश्रयाधिकारात् । यदा समुदाये वर्तते तदा पिप्पल्यद्धमिति तासः । भिक्षैकदेशे भिक्षाशब्दः । द्वितीया भिक्षा द्वितीय भिक्षा | तृतीय भिक्षा | चतुर्थभिक्षा | तुर्यभिक्षा । इह भिक्षाद्वितीयमिति तासो नोपपद्यते । "डद्गुणतृप्तार्थण [१।३।७५] श्रादिप्रतिषेधस्य बलीयस्त्वात् । कायैकदेशे कायशब्दः । पूर्वः कायः पूर्वकायः । परः कायः अपरकायः । उत्तरकायः । एवं मध्याह्नः । सायाह्नः । पूर्व कायस्येति व यत्रसम्बन्धे तासानभिधानं पूर्वं कायादिति प्राप्नोति । विशेषणविशेष्ययोरन्यतरस्य ग्रहणेऽपि सम्बन्धिशब्दत्वादुभयोः प्रतिपत्तिरिति द्वयनिर्देशो व्यर्थः ? नैत्रम् ; यत्र पूर्वोत्तरपदयोः प्रत्येकं विशेषणविशेष्यभावस्तत्र यथा स्यादिह मा भूत् । वृक्षः शिशपा । शिशपा हि वृक्षार्थं न व्यभिचरतीति न तस्या विशेष्यत्वम् । यदा शिंशपादिशब्दाः फलादिष्वपि वर्तन्ते तदोभयोर्विशेष्यत्वे सविधिर्भवत्येव । शिशपावृक्षः । पलाशवृक्षः । उभयोर्विशेषणत्वे कस्य पूर्वनिपात इति चेत् प्रधानद्रव्यापेक्षयान्वर्थस्य नीचो गुणस्य पूर्वनिपातः । यद्यन्युत्पलादिशब्दो जातिशब्दस्तथापि जातिद्रव्यस्योत्पत्तेः प्रभृत्याविनाशादात्मभूता प्रतीयत इति जातिनिमित्तः शब्दो द्रव्यशब्दो व्यवस्थाप्यते । अत एव विशेष्यत्वमुत्तरपदार्थस्य द्रव्यद्वारेण जातेरनीलत्वादनाधेया 'तिशयत्वाच्च, सामानाधिकरण्यं तु जात्यपेक्षया, जातेर्भेदाभेदविवक्षा अनेकान्ताधिकाराल्लभ्यते । विशेषणमिति किम् ? तक्षकः सर्पः । संज्ञा ।
विशेष्यत्वमेव न विशेषणत्वम् । विशेष्येति किम् ? लोहितस्तचकः । तस्य लोहितत्वाव्यभिचारादविशेष्यत्वम् । इतिशब्दः किमर्थो यत्र लोके विवक्षा तत्र यथा स्यात् । इह न भवति रामो जामदग्न्यः । अर्जुनः कार्तवीर्यः । इह कृष्णसर्पः लोहिताहि: लोहितशालिरित्येवमादिषु संज्ञाशब्देषु नित्यः सविधिः । वाक्यं तु साह - श्यमात्रेण । नीलोत्पलादिधूभयम् । नीलमुत्पलं नीलोत्पलम् । इहेच्छया विशेषणत्वम् । खञ्जकुटः | कुण्टखञ्जः ।
पूर्वाऽपरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः ॥ १/२/५३ ॥ पूर्व-पर-प्रथम चरम जघन्यसमान-मध्य-मध्यम-वीर इत्येते एकाश्रये सुपा सह समस्यन्ते षसो भवति । पूर्वपुरुषः । परपुरुषः । प्रथमपुरुषः । चरमपुरुषः । जघन्यपुरुषः । समानपुरुषः | मध्यपुरुषः । मध्यमपुरुषः । वीरपुरुषः । एवमाद्यनुक्रम पूर्वयोगप्रपञ्चार्थः । उपसर्जनानां परोपसर्जनार्थम्, प्रधानानां परप्रधानार्थञ्च । इह सूत्रे पूर्वशब्दो वीरशब्दवोपसर्जनं तयोर्वृत्तौ परत्वात् वीरशब्द उपसर्जनम् । वीरपूर्वः । "वृन्दारकनागकुञ्जरैस्वत्" [१/३/२७] इत्यत्र नागशब्दः प्रधानं "पोटायुवति " [१|३|६० ] इत्यत्र प्रवक्तृशब्दः प्रधानं तयोर्वृत्तौ परत्वात् प्रवक्ता प्रधानम् । नागप्रवक्ता ।
श्रेयादि कृतैः ॥ १|३|१४|| श्रेण्यादयः कृतादिभिः सह एकाश्रये बसो भवति । वैषम्याद्यथासङ्ख्यं न भवति । श्रेयादिषु च्व्यर्थग्रहणं कर्त्तव्यं न कर्त्तव्यमितिशब्दानुवृत्तेस्तत्रैव वृत्तिः । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । अनूका ऊकाः कृताः ऊककृताः । व्यर्थादन्यत्र श्रेणयः कृताः । करोतेरनेकार्थत्वाद्दरिडता पूजिता वेति गम्यते । विकल्पेन चिवविधास्यते यदा च्चिस्तदा परत्वात् ' तिकुप्रादयः " [१|३|८०] इति नित्यं प्रसः । श्रेणीकृताः । ऊकीकृताः । श्रेणि ऊक पूरा कुन्दुम राशि निचय विषय विशिष्ट निर्धन देव इन्द्र मुड श्रम भूत वदान्य अध्यापक ब्राह्मण क्षत्रिय पटु पण्डित कुशल चपल निपुण इति श्रेण्यादिः । कृतादिराकृतिगणः । कृत मित मत भूत उक्त समाज्ञात समाख्यात समाम्नात सम्भावित अवधारित संसेवित कल्पित निराकृत उपकृत इत्येवमादि । क्रियाकारकसम्बन्धोऽत्र न विशेषणविशेष्यभाव इति ।
१. न आधेयोऽतिशयो यस्मिन् तस्य भावः तस्मात् । २. तक्षकस्य अ०, ब० ।
For Private And Personal Use Only