________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
० १ पा० ३ सू०४७-२१
५४
षसे कृते तस्य “संज्ञादी रश्च" [ १ | ३ | ४७ ] इति रसंज्ञायां श्रायस्य ठरणो "रादुबखौ” [३|४|२३] इत्युप् । "हृदुप्युप्” [१।१18 ] इति स्त्रीत्यस्योप् । पञ्चानां नापितानामपत्यं पाञ्चनापितिः । "रस्योबनपत्ये " [३|१|७४ ] इति वचनं ज्ञापकं हृदर्थेऽपि से हृदुत्पत्तिर्भवति । द्यौ - पञ्च गावो धनमस्येति पञ्चगवधनः । श्रवयवसापेक्षया "गोरहृदुपि" [४।२।१४] इति टः सान्तः सिद्धः । द्वेऽहनी जातस्य द्वयहजातः । “एभ्योऽह्नोऽह्नः '' [४/२/१०] इत्यह्णादेशः । समाहारे - पञ्च पूलाः समाहृताः पञ्चपूली । अनेन षसः । उत्तरसूत्रेण रसंज्ञायां "शत्” [३।१।२५] इति ङीविधिः । कथं परणगरी १ अत्रापि क्रियागुणापेक्षया समाहारोऽस्ति । लब्धा शोभना चेति गम्यते समाहारस्यैकत्वादेकवचनम् । ननु समाहारः समूहः स तु हृदर्श एव न पृथक् समाहारनिर्देशात् । समूहार्थस्य त्यस्यानुपपत्तिः पञ्चानां कुमारीणां समाहारः पञ्चकुमारि । त्योत्पत्तौ हि 'रस्योबनपश्ये' [३|१|७४] इत्युप् प्रसज्येत । ततश्च "हृदुप्युप” [971/8] स्त्रीत्यस्योप् स्यात् ।
संख्यादी रश्च ||१|३|४७॥ हृदर्थ समाहार इत्यत्र संख्यादिर्यः स उक्तः स रसंज्ञो भवति हृदर्थे । द्वावनुयोगौ वेत्यधीते वा द्वयनुयोगः " । "रस्योबनपत्ये” [३|१|७४] इत्यण उप् । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः। द्यौ- पञ्च नावः प्रिया अस पञ्चनावप्रियः । “नावो रात्” [४/२/१०२] इति टः सान्तः । समाहारे-पञ्चपूली । चशब्दः षसंज्ञासमावेशार्थः । द्व े अंगुली समाहृते द्वयङ्गुली । "बेऽङ्गुले - संख्यादेः” [४|२|८८] इति श्रः सान्तः । "रात्" [३।१।२५] इति ङीविधिश्च सिद्धः ।
कुत्स्यं कुत्सनैः ||१|३|४८ ॥ कुत्स्यवाचि सुबन्तं कुत्सनवाचिना प्रसो भवति । वैयाकरणखसूचिः । प्रत्यासत्त : शब्द प्रवृत्तिनिमित्तस्य कुत्सायामयं सविधिः । रूपसिद्धि पृष्टो निःप्रतिभः सन् यः खं सूचयति वीक्षते सखसूची । खसूचित्वं कुत्सनम् । विशेषणस्य परनिपातार्थ आरम्भः । एवं क्षत्रियभीरुः । श्रोत्रियकितवः । भिक्षुविटः । मीमांसक दुदु रूढः । कुत्स्यमिति किम् ? वैयाकरणः कितवः । न हि वैयाकरणत्वं कितवत्वेन कुत्स्यते । कुत्सनैरिति किम् ? कुत्सितो ब्राह्मणः ।
पापा के कुत्स्यैः ||१|३३४९ ॥ पापाणकशब्दौ कुत्सनवचनौ कुत्स्यवचनैः प्रसो भवति । पापकुलालः । श्राणकनापितः । पूर्वयोगेन कुत्स्यस्य पूर्वनिपाते प्राप्त परनिपातार्थ श्रारम्भः ।
सामान्येनोपमानम् ||१|३|५० ॥ उपमानोपमेययोः साधारणो धर्मः सामान्यम् । उपमीयते परिच्छि द्यते अनेन सादृश्येनार्थं इत्युपमानम् । उपमानवाचि सुबन्तं सामान्यवाचिना सुबन्तेन सह प्रसो भवति । निराधारं सामान्यं न प्रतीयत इति सामान्यधर्मेण विशिष्ट यदुपमेयं तेनात्र वृत्तिः । शस्त्रीव श्यामा शस्त्रीश्यामा देवदत्ता | शस्त्रीशब्दः श्यामगुणमुपादाय देवदत्तायां वर्तत इति एकाश्रया वृत्तिर्न विरुध्यते । मृगीव चपला मृगचपलेति पु ंवद्भावश्च भवति । एवं कुमुदस्येनी हंसगमनी न्यग्रोधपरिमण्डला दूर्वाकाण्डश्यामा सरकाण्ड - गोरी | सामान्येनेति किम् ? फला इव तण्डुलाः । पर्वता इव बलाहकाः । उपमानमिति किम् ? देवदत्ता
श्यामा |
व्यरुपमेोऽद्योगे || १ | ३|५१ ॥ तस्य सामान्यस्य योगः प्रतिषिध्यते । उपमेयार्थवाचिव्याघ्रादिभिः सह षसो भवत्यतद्योगे । उपमेयशब्दस्य सम्बन्धिशब्दत्वादुपमाने न वृत्तिः । साधारणधर्मः सामान्यं हि वृत्तावन्तर्भूतम् । तद्योग इत्यनेन विशिष्टः साधारणधर्मः प्रतिषिध्यते । पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषविशेषणस्य परनिपातार्थ आरम्भः । व्यात्र सिंह ऋषभ चन्दन वृक वृषभ वृष वराह दस्तिन् कुञ्जर रुरु पुण्डरीक स्त्री पलाविका । श्राकृतिगणोऽयम् । तेन मुखकमलं करकिशलयं पुरुषचन्द्रादि सिद्धम् । तद्योग इति किम् ? पुरुषोऽयं व्याघ्र इव शूरः । इदमेव प्रतिषेधवचनं ज्ञापकं भवति - प्रधानस्य सापेक्षस्यापि वृत्तिः । तेन राजपुरुषो दर्शनीयः । राजपुरुषः पण्डित इत्येवमादि सिद्धम् ।
१.--योगः | त्र्यनुयोगः | रस्यो- अ० । २. मीमांसकदुर्दुरूटः स० । ३. सम्बन्धिश्वादुप - मु० ।
For Private And Personal Use Only