SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३ अ० १ पा० ३ सू० ४२-४६] महावृत्तिसहितम् रकपूर्वस्यापि ।' अवतप्तेनकुलस्थितं त एतत् । कार्येष्वनवस्थितत्वं तवेदमित्यर्थः । “पे कृति बहुलम्" [३।१३२] इत्यनुप् । एवमुदकेविशीर्ण भस्मनिहुतम् । निष्फलं तवेदमित्यर्थः । ध्वाः ॥१॥३॥४२॥ क्त नेति निवृत्तम् । क्षेप इति वर्तते । बहुवचनादनिर्देशः । ध्वाङ्क्षवाचिभिः सुबन्तं षसो भवति क्षेपे। तीर्थे ध्वाङ्ग इव तीर्थध्वाङक्षः। वृत्ताविवार्थस्यान्तर्भावः । तीर्थकाकः। श्राद्धवायसाः। अनवस्थित एवमुच्यते । ध्वाङ्क्षरित्यर्थनिर्देशात्तत्सदृशानामपि ग्रहणमिति केचित् । तीर्थश्वा । तीर्थसारमेयः । तीर्थशृगालः । क्षेप इति किम् ? तीर्थे ध्वासो वास्यते । पात्रेसमितादयश्च ॥१॥३॥४३॥ क्षेप इति वर्तते । पात्रेसमितादयश्च शब्दा गणपाठादेव निपातिताः षसंज्ञा भवन्ति क्षेपे । पात्रे एव समिताः पात्रेसमिताः । पात्रेबहुलाः । न कचित्कार्य इति क्षेपो गम्यते । निपातनादनुप् । उदुम्बरे मशक इव उदुम्बरमशकः । उदुम्बरकृमिः । कूपकच्छपः। अवटकच्छपः । कुपमण्डूकः । उदपानमण्डूकः। नगरकाकः। नगरवायसः । एतेष्विवार्थो वृत्तावन्तर्भूतः। मातरिपुरुषः । अयुक्तकारीत्यर्थः। पिण्डीशूरः। निरुत्साह इत्यर्थः। गेहेक्ष्वेडी। गेहेनर्दी। गेहेनती। गेहेविजिती । गेहेव्याडः। गर्भेतृप्तः । गर्भेदृप्तः । पाखनिकवकः । गोष्ठेशूरः। गोष्ठविजिती। गोष्ठेक्ष्वेडी | गेहेशूरः । गेहेमेही । गेहेर्दासः । गोष्ठेपटुः । गोष्ठेपण्डितः । गोष्ठेप्रगल्भः। कर्णेचुरुचुराः । चकारोऽवधारणार्थः । पात्रेसमितादय एव न वृत्त्यन्तरं लभन्ते । परमाः पात्रेसमिताः। अत एव क्तान्तेनापीह वृत्तिः सार्थिका अन्यथा 'क्षेपे' [१।३।४१] इत्यनेनैव सिद्धा स्यात् । पूर्वकालैकसर्वजरत्पुराणनवकेवलं यश्चैकाश्रये ॥१॥३॥४४॥ एकाश्रयः समानाधिकरणम् । पूर्वकालवाचि-एकसवं-जरत् पुराण-नव-केवल इत्येते सुबन्ता एकाश्रये सति सुबन्तेन सह यसंज्ञः सो भवति पसं. शश्च । पूर्वः कालो यस्य स पूर्वकालः । सम्बन्धिशब्दत्वादपरकालेन तस्य वृत्तिः । पूर्व स्नाताः पश्चादनुलिप्ता स्नातानुलिप्ताः । कृष्टसमीकृतम् । छिन्नप्ररूढम् । दग्धप्ररूढम् । एकशाटी । एकचर्या । एकभिक्षा । सर्वदेवाः । सर्वपदार्थाः । जरद्धस्ती । जरद्गवः । पुरा भवं पुराणम् । “सायञ्चिरम्प्राहे प्रगेझिभ्यस्तनट्" [३।२।१३६] इति तनट । अत एव निपातनात्तखम् । पुराणान्नम् । पुराणशास्त्रम् । नवावसथः केवलमसहायं ज्ञानं केवलज्ञानम् विशेषणवृत्तरयं प्रपञ्चः । चशब्दः षसंज्ञासमावेशार्थः । अन्यथा राजपुरुषादौ कृतार्था पसंज्ञा बाध्येत । मोषिका गौः मोषकगवी । “स्त्र्युक्तपुंस्क' [४।३।१४६] श्रादिना पुंवद्भावः,"न चुहृत्कोङ४३११४१] इति प्रतिषिद्धो यसंज्ञायां 'पुंवद्यजातीयदेशीये" १५४] इति पुनर्भवति । षसंज्ञाश्रयो “गोरहृदुपि' [४।२।६४] इति टः सान्तः । इत उत्तरमेकाश्रयाधिकारो यावत् "मयूरव्यसकादयश्चा' [१३।६६] इति । एकाश्रय इति किम् ? एकस्या शाटी। दिक्संख्यं खौ ॥१॥३॥४५॥ दिग्वाचि संख्यावाचि च सुबन्तमेकाश्रये सुबन्तेन सह षसो भवति खुविषये । पूर्वेषुकामशमी । अपरेषुकामशमी । पूर्वकृष्णमृत्तिका । अपरकृष्णमृत्तिका । दक्षिणपञ्चालाः । उत्तरपञ्चालाः। संख्या-पञ्चाम्राः। पञ्चवटाः । सप्तर्षयः। खाविति किम् ? दक्षिणा ग्रामाः। पञ्च ग्राम्राः। हृदथंधुसमाहारे ॥१३॥४६॥ दिसंख्यमिति वर्तते । हृदर्थविषये द्यौ परतः समाहारेऽभिधेये दिसंख्यमेकाश्रये सुबन्तेन सह षसो भवति । दिक् । हृदर्थे-पूर्वस्यां शालायां भवः षसे कृते समुदायात् "दिगादेरखौ''[३।२।८४]इति णः । पौर्वशालः । श्रापरशालः। द्यौ-पूर्वा शाला प्रिया अस्य पूर्वशालाप्रियः । अपरशालाप्रियः । अक्यवापेक्षया पसः। पूर्वपदस्य पुंवद्भावः । दिशां समाहारो नास्ति । क्रियागुणापेक्षयाऽपि समाहारे अनभिधानम् । संख्या । हृदर्थे-पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः। अनेन १. गेहेदाही श्रा, ब० । २.-प्रगल्भः । कर्णे ठिरिटिराः । कर्णे-अ०, ब०, स० । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy