SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-व्याकरणम् [अ० १ पा० ३ सू० ३२-४१ यवागूः । आतुरार्थः सूपः । देवाय बलिः देवबलिः । गृहबलिः । तादर्थे अप् । गोभ्यो हितं गोहितम् । अश्वहितम् । हितयोगे इदमेव ज्ञापकमपः । गोभ्यः सुखं गोसुखम् । "अप् चाशिष्या" [१॥४७७] इत्यादिना अप् । गोभ्यो रक्षितं गोरक्षितम् । तादर्थेऽप् । का भीभिः ।।१।३।३२।। बहुवचनादर्थविज्ञानम् । कान्तं भीवचनैः सह घसो भवति । वृकेभ्यो भीः वृकभीः। वृकेभ्यो भीतो वृकभीतः। वृकेभ्यो भयं वृकभयम् । वृकेभ्यो भीतिः वृकभीतिः। सुष्वनुग्रहार्थं" पूर्वस्यायं प्रपञ्चः। मुक्तापतापोढपतितापत्रस्तैः प्रायः ॥१३॥३३॥ मुक्त-अपेत-अपोढ-पतित-श्रपत्रस्त इत्येतैः सह कान्तं प्रायः घसो भवति । भवान्मुक्तो भवमुक्तः । पापापेतः । सुखापोढः । स्वर्गपतितः । तरङ्गापत्रस्तः । सर्व त्रापादाने का । प्राय इति किम् ? प्रासादात् पतितः । भोजनादपत्रस्त इत्येवमादौ न भवति । स्तोकान्तिकदूरार्थकृच्छ्न ।।१।३।३४|| स्तोक-अन्तिक-दूर इत्येवमर्थाः शब्दाः कृच्छ्रशब्दश्च कान्ताः क्लान्तेन सह षसो भवति । स्तोकान्मुक्तः । अन्तिकांदागतः। अभ्यासादागतः । दूरादागतः । विप्रकृष्टादागतः। कृच्छ्रान्मुक्तः। कृच्छ्राल्लब्धः । “स्तोकार्थकृच्छू भ्योऽपादाने का" । दूरान्तिकार्थेभ्य इप्चेति का । "कायाः स्तोकादेः' [४।३।१२१] इत्यनुप् । ईपछौण्डैः ॥१॥३॥३५॥ ईबन्तं शौण्डादिभिः सह पसो भवति । शौण्डैः सहचरिताः शौएडाः । अक्षेषु प्रसक्तः शौण्डोऽक्षशोण्डः । पानशौण्डः । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः । सर्वत्र अधिकरणे ईप् । शौण्ड, धूर्त, कितव, व्याड, संवीत, समीरण, अन्तर् वने अन्तर्वनान्तः । अधि राशि अधि राजाधीनम् । "अषडक्षासितङग्वधियोः" [।२।१६] इति खः । यदा पूर्वपदार्थप्राधान्यं विभक्त्यर्थश्च तदा हसः । अन्तर्वणम् । अधिस्त्रि । पण्डित । कुशल । चपल । निपुण । सिद्धशुष्कपक्कबन्धैः ॥१॥३॥३६॥ सिद्ध-शुष्क-पक्क-बन्ध इत्येतैरीबन्तं घसो भवति । काम्पिल्ये सिद्धः काम्पिल्यसिद्धः। सांकास्यसिद्धः । ऊके शुष्कः । ऊकशुष्कः । छायाशुष्कः । कुम्भीपक्कः । स्थालीपकः । चक्रबन्धः । चारकबन्धः । “साधनं कृता" [१।३।२६] इत्यस्यैव प्रपञ्चः। ऋणे व्यैः ॥१॥३॥३७॥ ईबन्तं व्यान्तैः सह षसो भवति ऋणे गम्यमाने । मासे देयमृणं मासदेयम् । मासैकदेशे मासशब्दः । अधिकरणे ईप्। एवं संवत्सरदेयम् । नियोगतः कार्यमृणम् । तेनेहापि भवति पूर्वाह्नज्ञेयम् । प्रातरध्येयम् । अत्र यत्यान्तेनैवाभिधानादिह न स्यात् । मासे दातव्यम् । मासे दानीयम् । भृण इति किम् ? मासे देया भिक्षा। खौ ॥१॥३॥३८॥ खुवषये ईबन्तं सुबन्तेन सह षसो भवति । अरण्येतिलकाः । वृत्तिपदेन संज्ञा गम्यत इति नित्यः सविधिः । “ईपोऽद्धलः'' [४।३।१२०] इत्यनुप् । एवमरण्येमाषकाः । वनेकसेरुकाः । वनेवल्वजकाः। पूर्वाह्न कोटकाः। पेपिशाचिकाः।। नाहोरात्रभेदाः ॥१३॥३६॥ भेदा अवयवाः । क्तान्तेन सह अहोरात्रभेदा ईबन्ताः षसो भवति । पूर्वाह्नकृतम् । अपराह्नकृतम् । पूर्वरात्रभुक्तम् । अपररात्रभुक्तम् । भेदग्रहणं किम् ? "उलूखलैराभरणः पिशाची यदभाषत । एतत्तु ते दिवा नृत्त रात्रौ नृत्तन्तु द्रक्ष्यसि ।” । तत्र ॥१॥३॥४०॥ क्त नेति वर्तते । तत्रेत्येतत् क्लान्तेन सह षसो भवति । तत्रकृतम् । तत्रभुक्तम् । तत्रपीतम्। एकपद्य प्रयोजनम् । क्षेपे ॥१॥३॥४१॥ क्षेपः कुत्सा । क्षेपे गम्यमाने ईबन्तं क्लान्तेन सह षसो भवति । "कृन्ग्रहणे तिका १.-हणार्धम् अ०। २. वने अन्तः ( वनान्तः ) वसति अ०, ब०, स० । ३.-रुकाः । वने हरिदुषाः । वने अ०। -रुकाः । वने हरिद्वकाः । बने ब०,स। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy