________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ. १ पा० ३ सू० २७-३१]
सुखम् । अत्यन्तरमणीयम् । सर्वरात्रकल्याणी । सर्वरात्रशोभना । “कालाध्वन्यविच्छेदे'' [11४४] इतीप् ।
__भा गुणोक्तयाऽर्थेनोनैः ॥१॥३॥२७॥ भान्तं गुणोक्त्या अर्थशब्देन गुणवाचिभिश्च शब्दैः सह षसो भवति । शङ्कलया खण्डः शङ्कलाखण्डः । “गुणवचनादुप्" [वा० ४।१।२३]'' इति मतोरुप् । एवं गिरिणा काण: गिरिकाणः । मदेन पटुर्मदपटुः । कुसुमैः सुरभिः कुसुमसुरभिः। कार्यकारणभावलक्षणमत्र सामर्थ्य शङ्कुलादिकृतलात् खण्डत्वादीनाम् । उक्तिग्रहणं किमर्थम् ? उच्यते इत्युक्तिः । गुणनोक्तिगुणोक्तिः । गुणद्वारेण द्रव्ये यः शब्दो वर्तते तेन वृत्तिर्यथा स्यात् केवलेन गुणेन मा भूत् । मदेन पाटवम् । वृत्तेन पाटवम । अर्थेन-धान्येनार्थो धान्यार्थः । पुण्येनार्थः पुण्यार्थः । अर्थशब्दोऽत्र प्रयोजनवाची। उनैः-माषणोनो माषोनः । माषविकलम् । एतैरिति किम् ? गोभिर्वपावान् । अस्त्यत्र कार्यकारणभावः । गोभिः कृतलादपावत्त्वस्य । इह कस्मान्न भवति ? अक्ष्णा काणः। असामर्थ्यात् । नात्र काणखमक्षि कृतमन्येन केनापि काणः कृतः । केवलमक्षणा काणत्वयुक्तो लक्ष्यते । इह कमान्न भवति । दध्ना पटुः । घृतेन पटुः । अनभिधानात् ।
पूर्वावरसदृशकलहनिपुणमिश्रश्लदणसमैः ॥१॥३॥२८॥ पूर्व अवर-सदृश-कलह-निपुण-मिश्रश्लक्ष्ण सम इत्येतैः सह भान्तं षसो भवति । मासेन पूर्वो मासपूर्वः। संवत्सरपूर्वः । मासावरः । संवत्सरावरः । अस्मादेव वचनाद्भा। हेतौ वा। पित्रा सदृशः पितृसदृशः। “भाऽतुलोपमाभ्यां तुल्याथैः'' [११४४७६] इति भा। विद्यया सदृशो विद्यासहशः। असिना कलहोऽसिकलहः । वाचा निपुणो वाङ निपुणः। गडेन मिश्रा गुडमिश्राः । तिलमिश्रा धानाः । वाचा श्लक्ष्णो वाक्श्लक्ष्णः। जिह्वाश्लक्ष्णः । मात्रा समो मातृसमः । कुलेन समः कुलसमः ।
साधनं कृता बहुलम् ॥१३२६॥ साधनं कारकं तत् कृदन्तेन बहुलं षसो भवति । कर्तृ-हिना हतोऽहिहतः । करणंमू-विषेण हतो विषहतः । "कृदग्रहणे तिकारकपूर्वस्यापि ।"(ननिर्भिन्नः ) नखनिर्भिन्नः । तथा देवदत्तेन नखनिभिन्नः देवदत्त नखनिभिन्नः। कर्म-ग्रामं गमी ग्रामगमी। श्रोदनं बुभुत्तरोदनबुभुक्षः। अपादानम्-ग्रामनिर्गतः। अधर्मजुगुप्सुः। सम्प्रदानम्-पादाभ्यां ह्रियते पादहारको भूपः। अधिकरणमगले चोपते गलचोपकः । "युव्या बहुलम्' [२।३।६४] इति बहुलवचनादुभयत्र कर्मणि एबुचु । कचिन्न भवति । दात्रेण लूनवान् । परशुना छिन्नवान् । व्यान्तैरधिकार्थवचन इष्यते । कुक्कुटैः सम्पात्याः कुक्कुटसम्पात्या ग्रामाः । अत्यासन्नताकथनम् । काकपेया नदी । श्वलेह्यः कूपः । कण्टकसंचय अोदनः । बाष्पच्छेद्यानि तृणानि । कचिन भवति । काकैः पातव्याः। काकैः पानीया नदी। कचिदधिकार्थाभावेऽपि । बसोपेन्ध्यम । तृणोपेन्थ्यम् । पूर्वमुत्तरञ्च कारकविभक्तोलक्षणं सविधानमस्यैव प्रपञ्चः । साधनमिति किम् ? भिक्षाभिरुषितः । हेतौ भा। क़द्ग्रहणं किम् ? कृदन्तेनैव वृत्तिर्यथा स्यात् सुबन्तेन मा भूत् । अभ्रविलिप्सी । "कादल्पे" [३।१।४४] इत्यकारान्तात् ङोविधिः सिद्धः । सुप्पुंलिङ्गयुक्ताद्भवति ।।
भयानाभ्यां मिश्रणव्यञ्जने ॥१॥३॥३०॥ मिश्रणव्यञ्जनवाचिना सुबन्तेन भक्ष्यान्नवाचिभ्यां यथासंख्यं षसो भवति । गुडेन मिश्रा धाना गुडधानाः। वृत्तो क्रियाया अन्तर्भावादप्रयोगः । एवं गुडपृथुकाः । तिलगृथुकाः। व्यञ्जनम्-दध्ना उपसिक्त श्रोदनो दध्योदनः। घृतौदनः ।
अप्तदर्थार्थबलिहितसुखरतितैः ॥१३॥३१॥ तस्मै इदं तदर्थम् । अनन्तं तदर्थेनार्थशब्देन च बलि-हित-सुख-रक्षित इत्येतैश्च सह पसो भवति । रथाय दारु । रथदारु । कुण्डलाय हिरण्यम् । कुण्डलहिरण्यम् । बहुलग्रहणानुवृत्तेः प्रकृतिविकृतिभावे तदर्थेन वृत्तिः । विकृतिः प्रकृत्या सह इत्यर्थः । इह न भवति । रन्धनाय स्थाली । अवहननायोलूखलम् । इदमेव ज्ञापकं तादयें अब् भवति । कथमश्वघासो हस्तिविद्येति ? तासेन सिद्धम् । अर्थशब्देन नित्यं वृत्तिः । मात्र इदं मात्रथम । त्रिलिङ्गता लोकाश्रयत्वाल्लिङ्गस्य । अातुरार्था
१. मात्रर्थम् । पित्र इदम्, पित्रर्थम् । निलि-ब० ।
For Private And Personal Use Only