________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
जैनेन्द्र-व्याकरणम्
[अ० १ पा० ३ सू० १८-२६
अस्त्यः सान्तो भवति । नदीशब्दोऽपि नदीवचन इति तेनापि वृत्तिः । पञ्चनदम् । अत्राऽप्यः सान्तः। चकारः किमर्थः ? समाहारे यथा स्यादिह मा भूत् । द्वीरावतीको देशः। एका नदी एकनदी।
खावन्यपदार्थ ॥१॥३॥१८॥ संख्येति निवृत्तम् । नदीभिरिति वर्तते । अन्यपदार्थे खुविधये नदीभिः सह सुबन्तं हसो भवति । उन्मत्तगङ्गं देशः। लोहितगङ्गम् । शनैर्गङ्गम् । तूष्णीगङ्गम् । अत्र वृत्तिपदेन संज्ञा गम्यत इति सामर्थ्यान्नित्यः सविधिः । उन्मत्ता गङ्गा यस्मिन् देशे इति सादृश्यमात्रेणार्थकथनं यथा गोरित्यस्यार्थे गच्छतीति | खाविति किम् ? शीघ्रा गङ्गा यस्मिन् देशे स शीघ्रगङ्गो देशः। अन्यपदार्थ इति किम् ? कृष्णावेष्णा | कृष्णावेष्णा नाम नदीविशेषलक्षणः
षम् ॥१३॥१६॥ अधिकारोऽयं प्राग बसात् । यदित ऊर्ध्वमनुक्रमिष्यामः षसंज्ञः सो भवति इत्येवं वेदितव्यम् । वक्ष्यति “इसच्छितातीतपतितगतात्यस्तैः” [३।३।२१] । धर्म श्रितो धर्मश्रितः । नपा निर्देशः किमर्थः १ इह वीरपुरुषको ग्राम इति पूर्वापरप्रथमादिसूत्रेण प्राप्तः स्वपदार्थविषयत्वादन्तरङ्गः पसो बहिरङ्गन बसेन बाध्यो यथा स्यात् । उत्तरपदार्थप्रधानत्वं घसस्याभिधानवशात् ।
इपा च प्राप्तापन्ने ॥११२०॥ इबन्तेन सह प्राप्तापन्ने शब्दरूपे षसो भवति । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नो जीविकामापन्नजीविकः । 'स्त्रीगोर्नीच:"[191 इति प्रादेशः । चकारः किमर्थः १ अकारादेशसमुच्चयार्थः । प्राप्ता जीविकां प्राप्ताजीविका । श्रापन्ना जीविकामापन्नाजीविका । प्रपञ्चार्थमिदं सूत्रम् । बसेनाप्येतत् सिध्यति । यदा कर्मणि तस्तदा प्राप्ता जीविका येनेति विग्रहो यदा कर्तरि तदा प्राप्ता जीविका यं पुरुषमिति ।
इप्तच्छितातीतपतितगतात्यस्तैः ॥१३॥२१॥ तच्छब्देन प्रासापन्नयोग्रहणम् । इबन्तं श्रित अतीत पतित गत अत्यस्त इत्येतैश्च सह षसो भवति । जीविका प्राप्तो जीविकाप्राप्तः । सुखापन्नः । धर्मश्रितः । संसारमतीतः संसारातीतः । नरकं पतितो नरकपतितः । मोक्षं गतो मोक्षगतः। तुहिनमत्यस्तस्तुहिनात्यस्तः । इबिति पदं सूत्रे वानिर्दिष्ट "वोक्तं न्यक्' [१॥३।१३] इति न्यसंशं तस्य वृत्तौ "पूर्वम्" [१॥३६७] इति पूर्वनिपातः । महान्तं धर्म श्रित इति सापेक्षत्वावृत्त्यभावः । यदा महांश्वासो धर्मश्च महाधर्म इति तदा महाधर्मश्रित इति भवति ।
स्वयं क्लन ॥१॥२२२॥ स्वयमित्येतत् झिसंज्ञ क्लान्तेन सह षसो भवति । इबधिकारोऽसम्भवादिमं योगमुत्प्लुत्य गच्छति । स्वयन्धौतौ पादौ। स्वयं गुप्ताः । “कृग्रहणे तिकारकपूर्वस्यापि ग्रहणम् ।" स्वयंविलीनमाज्यम् । एकपद्यं प्रयोजनम् । स्वयंधौतस्येदं स्वायंधौतम् ।
खट्वाऽक्रमे ॥१॥३॥२३॥ श्राचार्यासनं खट्वा । उत्पथगमनमक्रमः । खट्वाशब्द इबन्तः क्लान्तेन सह षसो भवति अक्रमे। खटवारूढो जाल्मः। खट्वाश्रितः । खट्वाप्लुतः । सर्व एते अविनीतपर्यायाः। गुरुभिरनुज्ञातेन खट्वा अारोढव्या तदन्यथाकरणमक्रमोऽत्र प्रतीयते । अत्रापि वृत्तिपदेनाक्रमो गम्यत इति नित्यः सविधिः । वाक्यं सादृश्यमात्रेण । अक्रम इति किम् ? खट्वामारूढोऽध्यापकोऽध्यापयति ।।
सामि ॥१॥३२४॥ सामि इत्य वाचि मिसंज्ञ' तत् सुबन्तं क्वान्तेन षसो भवति । सामिकृतम् । सामिभुक्तम् । सङ्घाताद्धृदुत्पत्तिः प्रयोजनम् । इबित्युपेक्षया गच्छति ।
कालाः ॥१॥३॥२५॥ कालवाचिनः शब्दा इबन्ताः कान्तेन सह षसो भवति । “कालावन्यविच्छेदे" [१।४।४] इत्यनेन या विहितेप् तस्या उत्तरसूत्रेणाक्लान्तेन वृत्तिं वक्ष्यति । विच्छेदे कान्तेनेहोदाहरणम् । षण्मुहूर्त्ताश्चराः । ते उत्तरायणेऽहर्गच्छन्ति । दक्षिणायने रात्रिम् । तेन नास्त्यविच्छेदः। अहरतिसृता मुहूर्ताः। अहःसंक्रान्ताः । “रोऽसुपि'' [१३.७८] इत्यह्नो नकारस्य रेफादेशः। रात्र्यारूढाः । रात्रिसंक्रान्ताः । मासं प्रमितो मासप्रमितश्चन्द्रमाः । मासं प्रमातुमारब्धः प्रतिपञ्चन्द्रमाः। तेन विच्छेदः ।
अविच्छेदे ॥१॥३॥२६॥ क्लान्तेनेति निवृत्तम् । अविच्छेदोऽत्यन्तसंयोगः। कालाः इयन्ताः सुबन्तेन सह षसो भवति अविच्छेदे । अविच्छेदश्च कालस्य द्रव्यक्रियागणैः सम्बन्धिभिव्याप्तिः । अत्यन्तं सुखमत्यन्त
-प्राप्तः । सुखमापनः । सुखा-म०, स.।
For Private And Personal Use Only