________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० ३ सू० १२-१७]
महावृत्तिसहितम्
यत्समयाऽनुः ॥१३॥१२॥ समयावाची अनुशब्द उपचारात् समया। यस्य समया यत्समया । मुख्येन समयाशब्देन योगाभावादिम्न भवति । अत एव "न झित" [१/४७२ ] इत्यादिनाऽदिन तासप्रतिषेधः । अनुर्यत्समयावाची तेन लक्षणभूतेन सह वा हसो भवति । अनुवनं गतोऽशनिः । वनमनुगत इति वाक्यम् । “भागे चानुप्रतिपरिणा" [ १२] इति लक्षणा इप् । वनेन समीपस्थमशनिगमनं लक्ष्यते । “झि विभक्त्यभ्यास-" [३५] इत्येवं सिद्धे विकल्पार्थ वचनम् । यत्समयेति किम् ? वृक्षमनु विद्योतते ।
आयामिना ।।१।३।१३।। अनुरिति वर्तते । लक्षणेनेति च | अनुनाऽऽयामिना लक्षणभतेन सह वा हसो भवति । द्वयोः प्रकृष्टहीनयोर्दीर्घयोर्योगेऽनुः प्रयुज्यमान उभयोर्दीर्घत्वमाह। तत्र प्रसिद्धाऽऽयामेन लक्षणेनातिशयेन दीपेण वा हसवृत्तिर्भवति । अनुगङ्ग वाराणसी। अनुशोनं पाटलिपुत्रम् । वाक्यमपि साधु भवति । गङ्गामन्वायता वाराणसी । नद्यायामेन पत्तनायामो लक्ष्यते । लक्षणे इप् । अथवा “हेतावनुना" [१॥४॥१३] । 'भाऽर्थे"[ ४] इतीब । गङ्गया सहायतेत्यर्थः।।
तिष्ठद्ग्वादीनि च ॥१३॥१४॥ तिष्ठद्गु इत्येवमादीनि च शब्दरूपाणि हसंज्ञानि भवन्ति । समुदाया एते हसंज्ञाः कार्यार्थ (कार्यार्थाः) पाठादेवं निपात्यन्त इत्यर्थः । तिष्ठद्गु कालविशेषेऽन्यपदार्थे । तिष्ठन्ति गावो यस्मिन् काले दोहाय तिष्ठद्गु । "त्यद्यो"[५/१११५७] इति लटः शत्रादेशोनिपातनाद्वा । 'स्त्रीगोर्नीचः''[1] इति प्रादेशः । वहन्ति गावो यस्मिन् काले वहद्गु । आयतीगवम् । पूर्वपदस्य निपातनात् पुंवद्भावाभावो ऽकारश्च सान्तो निपात्यते । खलेजुसम् । निपातनादीपोऽलुप् । लूनयवम् । लूयमानयवम् । लूयन्ते यवा यस्मिन् काले त्यद्योरिति लटः शानादेशः। पूतयवम् । पूयमानयवम् । संहृतयवम् । संह्रियमाण्यवम् । संहृतबुसम् । संह्रियमाणबुसम् । एते कालविशेपेऽन्यपदार्थे उक्ताः । समभूमिसमपदातिशब्दौ पूर्वपदार्थप्रधानौ समत्वं भूमेः समत्वं पदातैरिति । उत्तरपदार्थप्रधाने तु समा भूमिः समभूमिरिति षस एव । हसे पूर्वपदस्य केचिन्मकारान्तत्वमपीच्छन्ति । समम्भूमि । समम्पदाति । सुषमम् । विषमम् । निष्षमम् । दुष्षमम् । अवरसमम् । समशब्देन पूर्वपदार्थप्राधान्ये हसः। अनशोभनत्वं समस्येत्येवमादिवाक्यमंप्यूह्यम् । उत्तरपदार्थप्राधान्ये तु षसः । सम संवत्सरवाचि । तेन वक्ष्यमाणो हसः । श्रायतीसमा। अायतीसमम् । पापसमम् । पुण्यसमम् । केचित्त समशब्देनैव भासमिच्छन्ति । प्राय या सममायतीसमम् । प्रगतमह्नः प्राह्नम् (प्राहम्)। उत्तरपदार्थप्राधान्ये षसः । प्राह (ह) कल्याणनामानावुदितौ तिष्यपुनर्वसू । प्ररथम् । प्रमृगम् | प्रदक्षिणम् । अपदक्षिणम् । सम्प्रति । असम्प्रति । इच-दण्डादण्डि । मुसलामुसलि । "ज इच्"[४।२।१२८] इति इच् सान्तः । “अन्यस्यापि" [३२२३२] इति पूर्वपदस्य दीत्वम् । चशब्दोऽवधारणार्थः । तिष्ठद्ग्वादीन्येव नान्यैः सह वृत्तिं लभन्ते । परमं तिष्ठद्गु । "सन्महत्परमो." [१॥३॥५६] इत्यादिना षसो न भवति ।
पार मध्ये तया वा ॥१॥३॥१५॥ पारे मध्ये शब्दौ तान्तेन सह हसो भवति वावचनात्तासोऽपि । प्रकतेन वाग्रहणेन वाक्यस्य साधुत्वमभ्यनुज्ञायते । हसन्नियोगेन वानयो रेकारान्तता निपात्यते । पारं गङ्गायाः। मध्यं गङ्गायाः । पारेगङ्गम् । मध्येगङ्गम् । तासपक्षे गङ्गापारम् । गङ्गामध्यम् ।
संख्या वंश्येन ॥१३॥१६॥ विद्याजन्मादिकृतः सन्तानो वंशः। तत्र भवो वंश्यः। संख्या वंश्यवाचिना सह हसो भवति । द्वौ मुनी व्याकरणस्य वंश्यो द्विमुनि व्याकरणस्य । अत्र सम्बन्धे ता। यदा व्याकरणस्याचार्ययोरभेदविवक्षा यावेतौ द्वौ मुनी तावेव व्याकरणमिति द्वौ मुनी वंश्यो द्विमुनि व्याकरणमिति तदासामानाधिकरण्यं भवति । एवं सप्तकाशि । त्रिकोशलम् । एकाश्रयस्य वसस्य चापवादोऽयम् ।
नदीभिश्च ॥१॥३॥१७॥ बहुवचननिर्देशादर्थस्येदं ग्रहणम् । नदीवाचिभिः शब्दैः सह संख्या हसो भवति (सत सिन्धवः समाहताः सप्तसिन्धु । सप्तगङ्गम् । द्वियमुनम् । तिस्रो गोदावर्यः समाहृताः त्रिगो दावर णोदकपाण्डुपूर्वाया भूमेरः सान्त इष्यते । गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदा ॥” इति ।
१-वाक्यमभ्यूह्यम् अ०, ब०, स० ।
For Private And Personal Use Only