________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० १ पा० ३ सू०७-१२
यावद्यथावधृत्यसादृश्ये ॥१३॥६॥ प्रसक्तस्य परिमाणमवधृतिः । सादृश्यं तुल्यता । यावत् यथा इत्येतौ शब्दाववधृति असादृश्य इत्येतयोरर्थयोः सुपा सह यथासंख्यं हसो भवति । यावदमत्रं यावदवकाशमतिथीन् भोजय । यावन्त्यमत्राणि तावतो भोजयेत्यवधार्यते । यथावृद्ध साधूनर्चय । यथापटु । यथाध्यापकम् । वृद्धानतिक्रमणेत्यर्थः । उत्तरपदार्थानतिवृत्तिर्यथाशब्दस्यार्थो वीप्सा सादृश्यञ्च । अवधृत्यसादृश्य इति किम् ? यावद् दत्तं तावद्भक्तम् । यथा देवदत्तस्तथेन्द्रदत्तः। पूर्वेणैव यथार्थे हसे सिद्ध सादृश्ये प्रतिषेधार्थमिह यथाशब्दोपादानम् । गुणक्रियाछायासादृश्ये हसो वक्तव्यः [वा ] गुणः यथाशक्ति । यथावलम् । क्रिया यथोपदेशम् । छाया-यथासुखम् । न वक्तव्यम् । अत्राप्युत्तरपदार्थानतिवृत्तिर्गम्यते ।
स्तोके प्रतिना ॥१॥३।७।। झीति निवृत्तम् । स्तोक मात्रा । स्तोकेऽर्थे प्रतिना सह सुबन्तं हसो भवति । सूपस्य मात्रा सूपप्रति | शाकप्रति । स्तोक इति किम् ? वृक्षं प्रति विद्योतते विद्य त् । लक्षणेऽत्र प्रतिशब्दो वर्तते ।
परिणाऽक्षशलाकासंख्याः ॥ ११३८ ।। अक्षशब्दः शलाकाशब्दः संख्या च परिणा सह हसो भवति । परिणाक्षशलाकासंख्यमिति सिद्धे बहुवचननिर्देशादिष्टसंग्रहो लब्धो वेति सिंहावलोकनाद्वा । अक्षादयो यदा भान्ता एकत्वचाक्षशलाकयोः पूर्वोक्तस्यान्यथावृत्तौ परिशब्दो यदा वर्तते कितवव्यवहारविषये तदा वृत्तिरिष्यते। तथाहि पञ्चिका नाम द्यतं यत्र पञ्चाक्षाः शलाका वा पात्यन्ते पञ्चस्वेकरूपास पातयिता जयत्यन्यथा पाते जीयते । अक्षणेदं न तथा वृत्त यथा पूर्व जये। अक्षपरि। शलाकापरि । संख्या-एकपरि। द्विपरि । त्रिपरि चतुःपरि । परिणति किम् ? सुबन्तमात्रे मा भूत् । अक्षादय इति किम् ? पाशकेनेदं न तथा वृत्तम् । एकत्वेऽक्षशलाकयोरिति किम् ? अक्षाभ्यां न तथा वृत्तम् । कितवव्यवहार इति किम् ? अखेणेदं न तथावृत्तं शकटे।
वा॥१३।९।। वेत्ययमधिकारः। यदित ऊर्वमनुक्रमिष्यामस्तद्वा भवतीति वेदितव्यः। इत उत्तरः सविधिर्वा भवति पक्षे वाक्यमपि साधु भवति । पूर्वस्तु सविधिनित्यः । तेनास्वपदेन तत्र विग्रहो शेयः ।
पर्यपाबाहिरञ्चवः कया ॥१॥३॥१०॥ परि अप आङ् बहिस् अञ्च इत्येते सुबन्ताः कान्तेन सह वा हसो भवति । परित्रिगत वृष्टो देवः । वाक्यपक्षे परेर्वजने वा वचनमिति वा द्वित्वम् । परि परि त्रिगर्तेभ्यः । परि त्रिगर्तेभ्यः। अप त्रिगर्तेभ्यः । "वर्जनेऽपपरिभ्याम् [ २१] । इति का। आपाटलिपुत्रं वृष्टी देवः । पाटलिपुत्रात् । आकुमारं यशः समन्तभद्रस्य । या कुमारेभ्यः । “काडामर्यादावचने' [ २०] । इति मर्यादाभिविध्योः का। बहिामम् । बहिनामात् । इदमेव ज्ञापकं बहिःशब्दयोगे का भवति । अञ्च । प्राग्ग्रामम् । प्राग्ग्रामात् । प्राची दिग रमणीया इति विगृह्य "दिक्छब्देभ्यो वा केभ्योऽस्ताहिग्देशयोः काले" [ २] इति अस्तात् । तस्य "अञ्चेरुप्' [११९६] इत्युप् । “सुपो झे:"[१।४।१५०] इति सुप उप । पदत्वात् कुत्वम् । तेन योगे ता प्राप्ता तां बाधित्वा दिक्छब्दत्वात् का प्राप्ता तां बाधित्वा "ताऽतसर्थे त्येन" [ ३६] इति तायां प्राप्तायाम् "अञ्चुधु" [४॥३८] इति का भवति । कयेति किम् ? परिगतः । अपगतः । वर्जनार्थाभावात् का नास्तीति "तिकुप्रादयः [३॥३॥८१] इति नित्यं षसो भवति ।
लक्षणेनाभिमुख्यऽभिप्रती ॥१३॥११॥ लक्ष्यतेऽनेनेति लक्षणम् । तद्वाचिना सुबन्तेन सह अभिप्रतिशब्दावामिमुख्ये वर्तमानौ वा हसो भवति । अभ्यग्नि शलभाः पतन्ति । प्रत्यग्नि शलभाः पतन्ति । अग्निमभि पतन्ति । अग्नि प्रति पतन्तीति वाक्यम् । अत्राग्निना चिह्नन शलभपातो लक्ष्यते । "वीप्सेत्थम्भूतलक्षणेऽमिना [ ११] इप । “भागे चानुप्रतिपरिणा' [ १२] इति चेप् । लक्षणेनेति किम् ? खुध्नं प्रति गतः । दिङ्मोहात्तत्रैव पुनरागत इत्यर्थः । श्राभिमुख्य इति किम् ? अभ्यङ्का गावः। अभिनवः प्रतिनवोऽको यासामिति । यद्यपि पूर्वपदार्थप्रधानो हसस्तथापीहार्थविशेषाभावेऽन्यपदार्थेऽपि स्यात् । अभिप्रती इति किम् ? येनाग्निस्तेन गतः। येनेत्यस्याग्निना सह हसो न भवति ।
For Private And Personal Use Only