________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० ३ सू० ४ -- ६ ]
महावृत्तिसहितम्
वक्ष्यति "स्तोके प्रतिना" [११३७] सूपप्रति । शाकप्रति । स्वपदेन विग्रहः । श्रस्त्यत्र किंचित् सूपस्य मात्रा स्तोकमिति वा । अत्रान्ये मन्यन्ते श्रनव्ययस्याव्ययभवनभव्ययौभाव इत्यन्वर्थसंज्ञा कर्तव्या । एतच्चायुक्तम् । असंख्यस्य भिसंज्ञा युज्यते । श्रस्य च संख्या विद्यते । उपकुम्भेन । उपकुम्भाभ्याम् । उपकुम्भैः । दोषः खल्वपि झिसंज्ञायां “झिसर्वनाम्नोऽक् प्राक्टै:" [४ |१| १३०] इति यथेहाग्भवति । उच्चकैः । नीचकैरिति । एवमिहापि प्राप्नोति उपाग्निकं प्रत्यग्निकमिति । तथा "खित्यः " [४|३|१७६] “मुमच: " [४ | ३ | १७७ ] इति भेः प्रतिपेध उच्यते दोषामन्यमहः दिवामन्या रात्रिः । स इहापि प्राप्नोति । उपकुम्भंमन्यः । उपमणिकंमन्यः । इह च "अस्य वौ" " [५।२।१४१] इति ः प्रतिषेधो वक्ष्यति दोषाभूतमहः वाभूता रात्रिरिति । स इहापि प्राप्नोति । कुम्भीभूतः । उपमणिकीभूतः। तस्माल्लधीयसी ह इति संज्ञा युक्ता । यद्येवं "कृकमिकंस कुम्भकुशाकर्णी पात्रेतो h: " [ २/४ / ३४ ] इत्यनेन सत्वस्य प्रतिषेधो न प्राप्नोति उपपयः कार इति । श्रद्यस्थस्येति तत्र वर्तते । हसे च स्थो भवतीति प्रतिषेधः सिद्धः । पूर्वपदप्राधान्यञ्च हसत्याभिधानवशाज्ज्ञे यम् । हप्रदेशाः “हात्” [१/४/१५१] इत्येवमादयः ।
68
झि विभक्त्यभ्यासद्धर्यं र्थाभावातीत्य संप्रतिव्युद्धि-शब्दप्रभवपश्चाद्यथानुपूव्यंयौगपद्य संपसाकल्यान्तोकौ ॥ १३५ ॥ विभक्ती - अभ्यास ऋद्धि अर्थाभाव प्रतीति श्रसंप्रति व्यृद्धि शब्दप्रभव-पश्चात्यथानुपूर्व्यं यौगपद्य-सम्पत्-साकल्य श्रन्तोक्ति इत्येतेष्वर्थेषु यत् भिसंज्ञ ं वर्तते तत् सुबन्तेन समर्थेन सह हसंज्ञकः सो भवति । विभक्त्यर्थः कारकमधिकरणादि । स्त्रीषु कथा वर्तते । अधिस्त्रि | अधिकुमारि । ईचन्तेन वृत्तिः । “द्दश्च " [ १ । ४ । १४ ] इति नपुंसकलिङ्गातिदेशः । " प्रो नपि [ १1१1७ ] इति प्रादेशः । "हात्" [ १ । ४ । १५१ ] इति सुप उप् । अभ्यासः - समीपम् । उपकुम्भम् । उपगुरु । कुम्भस्याभ्यास इत्यर्थप्रदर्शनम्, तान्तेन वृत्तिरिति केचित् । तदयुक्तम् । उपशब्दोऽयं द्योतकः स उत्तरपदार्थव्यतिरेकं न जनयति अभ्यासादीनान्तु शब्दानां वाचकानां सन्निधाने व्यतिरेकः प्रतीयते यथा धवश्व खदिरश्वेत्यस्यार्थे समुच्चयो धवखदिरस्य । तस्माद्वान्तेन वृत्तिः । विभूतेराधिक्यं ऋद्धिः । मद्राणां ऋद्धिः सुमद्र सुमगधं वर्तते । पूर्वपदार्थस्य प्राधान्ये हसः । यदा तु मद्रा ऋद्धया विशिष्यन्ते तदा शोभना मद्राः सुभद्रा इि “तिकुप्रादयः” [१ । ३ । ८१] इति षसः । श्रभाव उत्तरपदार्थप्रध्वंसः । अभावो मक्षिकाणाममक्षिकम् । विमक्षिकम् । निर्मक्षिकम् । अर्थग्रहणं किम् ? धर्माभावे इतरेतराभावे च मा भूत् । न भवति ब्राह्मणो गौरश्वो न भवतीति । प्रतीतिरतीतत्वम् । स्वत एवातिक्रान्तत्वमित्यर्थः । श्रतीतानि तृणानि तृणम् । नितृणम् । एवं निशीतं निवातं वर्तते । न सम्प्रति असम्प्रति नेदानीमित्यर्थः । न सम्प्रति तैस्सृकर्मातितैसृकम् । नायं तैसुकस्याच्छादनस्योपभोगकाल इत्यर्थः । तिसृका नाम ग्रामस्तत श्रागतं तैसृकम् । विराम ऋद्धेत्यृद्धिः । गब्दिकानामृद्धेर्विगमो दुर्गब्दिकम् । दुर्यवनम् । शब्दप्रभवः शब्दस्य प्रकाशमानता। श्रीदत्तस्य शब्दप्रभवः इतिश्रीदत्तम् । तच्छ्रीदत्तमहो श्रीदत्तम् । श्रीदत्तशब्दो लोके प्रकाशत इत्यर्थः पश्चात् रथानां पश्चादनुरथं पादातम् । यथार्थो योग्यता । श्रनुरूपं सुरूप वहति । सादृश्यमपि यथार्थः । उत्तरत्रासादृश्य इति प्रतिषेधाज्ज्ञायतॆ । सदृशं व्रतस्य सव्रतम् । सशीलम् । “हेकाले' [४/३/१८९ ] इति सहस्य सादेशः । पूर्वं पूर्वमनुपूर्व तस्य भाव आनुपूर्त्यम् | अनुज्येष्ठं प्रविशन्तु भवन्तः । ज्येष्ठानुक्रमेणेत्यर्थः । श्रानुपूर्व्यं विन्यासविशेष इति यथार्थात् पृथगुक्तम् | यौगपद्यसम्पत्साकल्यान्तोक्तिषु सहशब्दो वर्तते । यौगपद्यमेककालता । सचक्रं धेहि । युगच्चक्रे धेहीत्यर्थः । सधुरं प्राज । युगपद्ध रौ प्राजेत्यर्थः । सम्पत् सिद्धिः । श्रात्मभावनिष्पत्तिरित्यर्थः । वृत्तस्य सम्पत् क्षत्रस्य सम्पत् सवृत्तं साधूनाम् । सक्षत्रं शालकायनानाम् । साकल्य — सतृणमभ्यवहरति । सर्वेण सहाभ्यवहरतीत्यर्थी । अन्तः समाप्तिः प्राभृतपर्यन्तमधीते । एवं सबन्धं सटीकम् । श्रत्र परिसमाप्तिरसाकल्येऽप्यध्ययने प्रतीयत इति साकल्येऽनन्तर्भावः । इह चण्डाले प्रयच्छतीति अन्तोक्तिरभिविधिरप्यस्ति । परत्वात्
For Private And Personal Use Only
"पर्य
बहिरचच: कया” [१/३/१० ] इति विभाषा भवति । श्राचण्डालमा चण्डालेभ्य इति । "वीप्सायां are aaor: " [aro] प्रत्यर्थम् । प्रतिपर्यायम् । अर्थमर्थं प्रति । पर्यायं पर्यायं प्रति ।