________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[म.
पा. ३ सू. १-३
विभक्ती ॥१२।१५७।। सुप इत्यनुवर्तते त्रिश इति च । सुपां त्रीणि त्रीणि वचनानि विभक्तीसंज्ञानि भवन्ति । सु श्री जसिति त्रिको वर्गस्तस्य विभक्ती इति संज्ञा । त्रिकसमुदाये संज्ञा । विहिताऽवयवेऽप्युपचर्यते । एवं सर्वत्र सुपां त्रिकेषु योज्यम् । मिडां विभक्तीसंज्ञायां न गुणो नापि दोषः। विभक्तीशब्दस्य कथं सिद्धि। विपूर्वादभजे: "क्तिचक्तौ खौ" २।३।१५०] इति क्तिच् । तस्मात् "कृदिकारादत:" [३।१।३१। ग० सू०] इति डीविधिः । महासंज्ञाकरणमुत्तरार्थम् ।
तासामाप्यरास्तद्धलच ॥२१५॥ तस्य विभकीशब्दस्य हलोऽचश्च श्राकारपकारपगस्तासां विभक्तीनां यथासंख्यं संज्ञा भवन्ति । वा इषु भा अप का ता ईप इति एताः संज्ञाः। सुपस्त्रिश इति चानुवर्तते । सु श्री जसिति वा । अम् औट शसिति इप । टा भ्यां भिसिति भा। डे भ्यां भ्यसिति अप् । उसि भ्यां भ्यसिति का। ङस् अोस् आमिति ता । ङि श्रोम् सुप् इति ईप्। तासां ग्रहणं सुब्बिभक्त्युपादानार्थम् । “सपूर्वाया वायाः" [५।३ । २३] इत्येवमादयो निर्देशाः सौत्राः।
इत्यभयनन्दिविरचितायां जैनेन्द्रव्याकरणमहावृत्तौ प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ।।२।।
समर्थः पदविधिः ॥१॥३॥१॥ परिभाषेयम् । समर्थपदाश्रयत्वात् समर्थः । पदसम्बन्धी विधिः पदविधिः । सर्वः पदविधिः समर्थो वेदितव्यः । समर्थानां पदानां विधिर्वेदितव्य इत्यर्थः। द्विविधं सामर्थ्यमेकार्थीभावः परस्परव्यपेक्षा च । तत्र सविधिनामधुहृद्विधिषु स्वभावत एकार्थीभावः सामर्थ्यमन्यत्र व्यपेक्षा । एकार्थीभावे सङ्गतार्थः संस्पृष्टार्थो वा समर्थः। व्यपेक्षायां सम्बद्धार्थः सम्प्रेक्षितार्थो वा समर्थः । वक्ष्यति "इप सचिछतातीतपतितगतात्यस्तैः श३।२१] धर्म श्रितो धर्मश्रितः। समर्थग्रहणं किम् ? व्याचष्टे मुनिर्धर्म श्रितः शिष्यो गुरुकुलम् । अत्र व्यपेक्षा नास्ति । "भा गुणोक्त्याऽर्थेनोन: "१३२७]। मदेन पटुर्मदपटुः । समर्थ ग्रहणं किम् १ दन्ती भ्रमति मदेन पटुः शास्त्रेण । 'अक्षदर्थार्थबलिहितसुखरक्षित" [११३२३१] । रथाय दारु रथदारु । समर्थग्रहणं किम् ? गच्छ त्वं रथाय दारु देवदत्तस्य गेहे । "का भीभिः" [१३३२। संसाराद्वयं संसारभयम् । समर्थग्रहणं किम् ? ध्यानी निष्कामति संसाराद्भयमरण्ये। "ता" [१॥३१७०] । मोक्षस्य मार्गों मोक्षमार्गः । समर्थग्रहणणं किम् ? अनन्तसुखं मोक्षस्य मार्गः स्वर्गस्य व्रतम् । “ईछौण्डैः [१॥३॥३॥ अक्षेषु शौण्डोऽक्षशौण्डः । समर्थग्रहण किम् ? मूढः शक्तोऽक्षेषु शौण्डः पिबति पानागारे । पदग्रहणं किम् ? तिष्ठतु दध्यशान त्वं साकेन । तिष्ठतु कुमारी, छत्रं हर देवदत्तात् । वविधौ समर्थपरिभाषा नावतरतीत्यानन्तर्यमात्रेण यणादेशस्तुग्विधिश्च भवति । "वा पदस्य" [॥३६५] इत्यत्र पदग्रहां द्विमात्रस्य विशेषणमिति पदविधिरयं न भवतीति विकल्पेन तुक ।
सः॥१२॥ स इत्ययमधिकारो वेदितव्य ा पादपरिसमाप्तेः। समुदाये वाक्यपरिसमाप्तिश्चाश्रीयते तेन पदसमुदाये ससंज्ञा न प्रत्येकमिति । वक्ष्यति “यावद्यथावत्यसादृश्ये" [१३।६] । यथावृद्धमतिथीन भोजय। नित्यत्वात् सविधेरस्वपदविग्रहेणार्थः प्रदर्श्यते ये ये वृद्धा इति। वीप्सायां यथाशब्दः। स इति पंलिंगनिर्देशः किमर्थः ? हादिभिविशेषसंज्ञाभिः समावेशो यथा स्यात् ।
सुप सुपा ॥१॥३॥३॥ सुबन्तं सुबन्तेन सह सो भवतीत्येतदधिकृतं वेदितव्यमापादपरिसमाप्तः । वन्यति"हप्तच्छिता" [१॥३॥२१] इत्यादि । धर्मश्रितः। लक्षणञ्च दं सुबन्तं सुबन्तेन सह सो भवति [ यदृच्छया
तर्कितोपस्थिते चित्रीकरणे वाऽयमिष्यते। तेन काकतालीयादयः सिद्धाः । तथाहि यहच्छयो तालस्य पतनं सन्निहितं काकश्चातर्कित उपस्थितः स काकस्तेन तालेन पतता हतः। अस्मिन्नर्थेऽनयोः सामान्येन सः। काकश्च जालञ्च काकतालं तदिव काकतालीयम् । इवे प्रतिकृती" [४।१।१५०] इत्यधिकृत्य "कुशा. प्राच्छः" [४।१११५६] इति चानुवर्तमाने “सातद्विषयात्'' [४।१।१६०] इति च्छो भवति । एवमजाकृपाणीयमन्धकवर्तकीयम् ।।
हः ।।१।३।४॥ अधिकारोऽयम् । यानित ऊर्ध्वमनुक्रमिष्यामो हसंज्ञास्ते वेदितव्याः षमित्यतः प्राक् । १.न्दिरचि-अ० । २.-या महा-अ० । स० । ३. द्विविधम् इति अ० ब० स० पुस्तकेषु नास्ति ।
For Private And Personal Use Only