________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० २ सू० १५१-१५६]
महावृत्तिसहितम्
४५
दानामपि । इट वहि महि इत्यस्मद् । थास् प्राथां ध्वमिति युष्मद् । त आतां झङित्यन्यः। मिङ इति किम् ? अनुत्तरस्य दस्य मस्य च ग्रहणार्थम् । त्रिश इति "संख्यकाद्वीप्सायाम् [२४] इति शस्।
साधने स्वार्थे ॥१।२।१५३।। अस्मदादयोऽन्वर्थसंज्ञा अनुवर्तन्ते । लस्येत्यधिकृत्याविशेषेण मिङादयो विहितास्तन्नियमोऽयम् । स्वस्यार्थः स्वोऽर्थो वा स्वार्थस्तस्मिन् स्वार्थे साधनेऽस्मदादयो वेदितव्याः। अस्मत्पदस्यार्थे साधनेऽस्मत्रिक युष्मत्पदस्यार्थे साधने युष्मत्रिकमाभ्यामन्यस्यार्थे साधनेऽन्यन्त्रिकं भवति । अस्मदाद्यर्थानां साधनत्वे सति नियमोऽयम् । ततोऽस्मदादिपदानामनुप्रयोगे सत्यसति चास्मदादयो भवन्ति । अहं पचामि | आवां पचावः । वयं पचामः । पचामि | पचावः । पचामः । त्वं पचसि । युवां पचयः । यूयं पचथ । पचसि । पचथः । पचथ । स पचति । तौ पचतः। ते पचन्ति । पचति । पचतः । पचन्ति । एवं दविधावपि योज्यम् । भावेऽस्मद्युष्मदर्थयोरभावात् भावस्य चाभ्यामन्यत्वादेकत्वाच्च तस्मिन् साधनेऽन्य एव भवति । प्रास्यते भवता । ग्लायते भवता । यत्रास्मदाद्यर्था युगपत् साधनं तत्र क इष्यते ? पूर्वनिर्णयमेव यः पूर्वः। अत्र किमस्मदर्थ एव साधनेऽस्मद् भवतीत्यवध्रियते आहोस्विदस्मदर्थे साधनेऽस्मदेव भवतीति । उभयथाऽप्यदोषः सर्वेषां नियतत्वात् । ननु द्वितीये पदे त्वया (मया) कुर्वाणेनेत्यत्र दोषः । मैवम् । त्रिकापेक्षया नियमो न साधनापेक्षया ।
प्रहासे मन्यवाचि युष्मन्मन्यतेरस्मदेकवच्च ॥२।१५४॥ मन्य इति मन्यतेरेकदेशः । ब्रते इति वाक । मन्यो वाक यस्य प्रहासस्य तस्मिन् मन्यवाचि प्रहासे गम्यमाने युष्मद्भवति मन्यतेश्चास्मद्भवति एकवच्च । अस्मद्यष्मदोर्व्यत्ययार्थोऽयमारम्भः । पहि मन्ये रथेन यास्यसि न हि यास्यसि यातस्ते पिता । एहि मन्यसे रथेन
यामीति प्राप्तम । एवमेहि मन्ये अोदनं भोक्ष्यसे न हि भोच्यसे भुक्तः सोऽतिथिभिः। द्वित्वबहत्वविवक्षायासपि मन्यतेरेकवद्भावो भवति । एवं मन्ये रथेन यास्यथ न यास्यथेति । प्रहास इति किम ? एहि मन्यसे प्रोदनं भोक्ष्य इति सुष्ठु मन्यसे साधु मन्यसे ।
एकद्विबहवश्चैकशः ॥१२॥१५५॥ यान्यस्मयुष्मदन्यसञ्ज्ञानां संज्ञित्वेनोपात्तानि षट् त्रिकाणि तान्येकश एक द्वि बह इत्येवंसंज्ञानि भवन्ति । मिबित्येकः । वसिति द्विः । मसिति बहुः । एवं शेषेषु योज्यम। अस्मदादिसंज्ञाः पुंल्लिङ्गा एकादिभिः सह समाविशन्ति ।
सुपश्च ॥१॥२॥१५६।। त्रिश इति वर्तते । सुपश्च त्रिकाणि एकद्विबहुसंज्ञानि भवन्त्येकशः । सु इत्येकः औ इति द्विः । जसिति बहुः । एवं शेषेषु त्रिकेषु नेयम् । उभयत्र चशब्दः “साधने स्वार्थे" [१२।१५२] इत्यस्यानुकर्षणार्थः । एकार्थे साधने एको मिब्भवति । द्वयर्थे द्विर्वस् । बह्वर्थे बहुर्मस् । एवं मित् सुम्सु चयोज्यम । नन च "साधने स्वार्थे" इत्येतन्मिङ उपपद्यते यतः साधनं कारक क्रियाया निर्वर्तक क्रिया च ध्वर्थः । धोश्च मिडो विहिता इति साधनवाचित्वोपपत्तंः। सुपस्त्वक्रियावाचिनो ड्याम्मृदो विधीयन्त इति तत्र साधने स्वार्थ इत्येतन्न घटते । नैष दोषः । अक्रियावाचिनोऽपि विधीयमानाः सुपः क्रियावाचिपदान्तरमाकाङतन्ति । पदान्तरवाच्यायाः क्रियायाः साधनभावोपपत्ते: सुप्स्वपि “साधने स्वार्थे" इत्ययं व्यवहारो यज्यते। देवदत्तः पचति देवदत्तौ पचतः । देवदत्ताः पचन्ति । यत्रापि क्रियापदं न प्रयुज्यते वृक्षः प्लक्ष इति तत्राप्यस्ति भवतीति परः सन्निहितस्तदपेक्षया व्यवहारः । मिङ: सामान्येन धुमात्राद्विधीयन्ते सुपश्च मृन्मात्रात्तेषां संकरेण प्राप्ती नियमोऽयम । त्यनियमोऽर्थनियमो वा । एकार्थ एव साधन एको भवति द्वयर्थ एव साधने द्विर्भवति बर्थ एव (साधने) बहर्भवतीति त्यनियमः। एकार्थ साधने एक एव भवति द्वयर्थे द्विरेव भवति बह्वर्थे बहरेव भवतीत्यर्थनियमः । त्यनियमपक्षे "सुपो मे" [१।४।१५०] इति वचनं ज्ञापकमेकत्वादीनामभावेऽप्युत्पद्यन्ते झेः सुप इति । अर्थनियमपने एकत्वादयो नियतास्त्यान्न व्यभिचरन्ति त्याः पुनरनियता एकत्वादीनामभावे व्यतिकरणेन भिसज्ञकेभ्यो भवन्ति । तत्र "सुपो झेः" [ १०] इत्युपि कृते सुबन्तं पदं भवति ।
For Private And Personal Use Only