________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
जैनेन्द्र-व्याकरणम्
[अ० १ पा० २ सू० १४३ - १५२
साक्षादादिः || १ |२| १४३ ॥ वेति वर्तते । साक्षात्प्रभृतीनि शब्दरूपाणि कृषि वा तिसंज्ञानि भवन्ति । "विडाजूर्यादि : " [ १२/१३२ ] इत्यतो मण्डूकप्लुत्या क्विग्रहणमर्थपरमनुवर्तते । तेन च्व्यर्थे तिसंज्ञाविकल्पोऽयम् । साक्षात्कृत्य | साक्षात्कृत्वा । मिथ्याकृत्य । मिथ्याकृत्वा । यदा च्चिरुत्पद्यते तदा " चिवडाजूर्यादिः " इत्यनेन नित्यं तिसंज्ञा भवति । साक्षात् । मिथ्या । चिन्ता । भद्रा । रोचना । लोचना । अमा । आस्था | श्रद्धा । आसा । प्राजर्या । प्राजरुहा । बीजर्या । बीजरहा । संसर्या । श्रर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । श्रदम् । तिसन्नियोगे लवणादीनां मकारान्तत्वं निपात्यते । श्रग्नौ । वसे । विकसने । विकम्पने । विहसने । अग्नप्रभृतय ईवन्तप्रतिरूपका निपातनं वा । वेति व्यवस्थितविभाषानुवर्तनाल्लवणादीनां च्व्यन्तानां मकारौकारनिपातनं न भवति । लवणीकृत्य । वसीकृत्य । नमस् । प्रादुराविःशब्दौ ऊर्यादिष्वपि पठ्यते । तयोः कृञि विकल्पार्थ इह पाठः ।
1
Acharya Shri Kailassagarsuri Gyanmandir
मनस्युरस्यनत्याधाने ||१|२| १४४ ॥ मनसिउरसिशब्दौ ईबन्त प्रतिरूपकौ निपातनं च । अत्याधानमुपश्लेषः । मनसि उरसि इत्येतौ अनत्याधानेऽर्थे कृत्रि वा तिसंज्ञौ भवतः । उरसिकृत्य । उरसि कृत्वा । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अनत्याधान इति किम् ? उरसि कृत्वा पाणि शेते ।
मध्ये पदे निवचने ॥ | १ |२| १४५ || अनत्याधान इति वर्तते । मध्ये पदे निवचने इत्येते शब्दाः कृत्रि वा तिसंज्ञा भवन्ति अनत्याधाने । एकारान्तता पूर्ववद्वेदितव्या । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचने इति वचनाभावे वर्तते । निवचनेकृत्य । निवचने कृत्वा । अनत्याधान इत्येव । हस्तिनः पदे कृत्वा हस्तमास्ते ।
हस्ते पाणी स्वोकृतौ तिः || १ |२| १४६ || हस्ते पाणौ इत्येतौ स्वीकृतावर्थे कृत्रि तिसंज्ञौ भवतः । हस्तेकृत्य । पाणौकृत्य । भार्या कृत्वेत्यर्थः । स्वीकृताविति किम् ? हस्ते कृत्वा कार्षापणं गतः । नात्र दारस्वीकारः । पुनस्तिग्रहणं नित्यार्थम् ।
प्राध्वं बन्धे || १ | २|१४७ || प्राध्वमिति मकारान्तो भिसंशः शब्द श्रानुलोम्ये वर्तते । प्राध्वं शब्दः कृञितिसंज्ञो भवति बन्धी निमित्तं चेत् । प्राध्वं कृत्य । बन्धनिमित्तमानुलोम्यमिह प्राध्वं करणम् । बन्ध इति किम् ? प्रगतमध्वानं प्राथ्यं कृत्वा शकटं गतः । “तिकुप्रादयः " [ ११३८ १] इति षसः । “गेरध्वनः” [ ४ २८७] इति सान्तो ऽकारः । प्रतिपदोक्त परिभाषा नाश्रयणे प्रत्युदाहरणमिदम् ।
जीविकोपनिषदाविवे || १ |२| १४८ ॥ उपनिषद्रहस्यम् । जीविका उपनिषदित्येतौ शब्दाविवशब्दस्यार्थे कृञितिसंज्ञौ भवतः । जीविकाकृत्य । उपनिषत्कृत्य । जीविकामिव उपनिषदमिव कृत्वेत्यर्थः । इवाथ इति किम् १ जीविकां कृत्वा गतः ।
I
प्राग्धोस्ते || १/२/१४६ ॥ प्रयोगनियमोऽयम् । ते गितिसंज्ञा धोः प्रागेव प्रयोक्तव्याः । तथा चैवोदाहृतम् । ते इति वचनं किमर्थम् । श्रनन्तराणां तीनां गीनां च ग्रहणार्थम् ।
लो मम् ॥ १२ ॥ १५० ॥ नवानां लकाराणामनुबन्धापाये ल इति सामान्येन निर्देशः । लादेशो मसंज्ञो भवति । मिप् वस् मस् सिप थस् थ तिप् तस कि शत्रु नपा निर्देशः पुंल्लिङ्गया दसंज्ञया बाधा यथा स्यात् । समावेशे हि श्राक्रमत आदित्यः सङ्गस्यत इत्यत्र “क्रमो मे " [५/२/७४ ] दीत्वं "गमेरिमे" [५|१|१०६ ] इति इट् प्रसज्येत । शतरि मसंज्ञा सावकाशेति मिङ् तु वच्यमाणाभिरस्मदादिभिः संज्ञाभिर्वाध्यत्वं नाशङ्कनीयम् | "सावैम्मे' [५।१।७७ ] इति वचनं ज्ञापकं मिङां मसंज्ञाऽपि भवतीति ।
नंदः ||१|२|१५१ ॥ इङिति प्रत्याहार इडित्यतः प्रभृति श्रा झङो ङकारेण । इङ् च श्रानश्च दसंज्ञौ भवतः । इट् वहि महि थास् श्राथाम् ध्वम् त श्राताम् झङ । श्रान इति शानो गृह्यते ।
मिङस्त्रिशोऽस्मद्युष्मदन्याः || १ |२| १५२ || मिङो मसंज्ञानि च त्रीणि त्रीणि वचनानि श्रस्मद्युष्मदन्य इति एवंसंज्ञानि भवन्ति । मिपू वसू मसित्यस्मद् । सिप् थस् थेति युष्मद् । तिप् तस् भीत्यन्यः ।
For Private And Personal Use Only