________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० १ पा० २ सू० १३३-१४२]
महावृत्तिसहितम्
स्वधा एते दानार्थाः। चादिषु च पाठादक्रियायोगेऽपि निसंज्ञा । प्रादुर श्रत् आविस् । प्रादुःकृत्य । प्रादुर्भय । श्रद्धाय । प्राविर्भूय । प्राविःशब्दः साक्षादादौ च पठ्यते । तस्य "वा कृजि"
५. सादादादा पपव्यत तस्य "वा कृाज ग१४१॥ इति करोतियोग तिसंज्ञाविकल्पः । आविष्कृत्य । आविष्कृला ।
अनितावनुकरणम् ।।२२।१३३।। अव्यक्तो व्यक्तो वा शब्दोऽनुक्रियतेऽनेनेत्यनुकरणम् । अनितिपरमनुकरणं क्रियायोगे तिसंज्ञ भवति । 'खाटकृत्य । पटत्कृत्य । अनिताविति किम् ? खाडिति कृत्वा निरष्ठी वत् । खाट्छब्दस्य धोः प्राक् प्रयोगः सविधिश्च प्रसज्येत । "ध्वादेः षः सः" [२३] इत्यत्र सुबधुष्टीवतिष्वष्कति व्यायतीमा प्रतिषेध उक्तः।
(सदादरानादरयोः ॥१।२।१३४॥ श्रादरः सम्भ्रमः। अवज्ञानमौदासीन्यं वाऽनादरः। सच्छब्द आदरानादार इत्येतयोरर्थयोस्तिसंज्ञो भवति ) श्रादरे-सत्कृत्य । अनादरे-असत्कृत्य । अनादर इत्यर्थनिर्दे. शात सच्छब्दस्य तदन्तविधिरिष्टः। तेनेहापि भवति । परमसत्कृत्य । तिसंज्ञायां निसंज्ञासमावेशः। निसंज्ञस्यासंख्यत्वाझिसज्जा । श्रादरानादरयोरिति किम् ? सत्कृला काण्डं गतः। विद्यमानं कृत्वेत्यर्थः ।
भूषाऽपरिग्रहेऽलमन्तः ।।१।२।१३५॥ अलमन्तरित्येतौ शब्दौ भूषायामपरिग्रहे चार्थे यथासंख्य तिसंज्ञौ भवतः । अलङ कृत्य । भूषयित्वेत्यर्थः । अन्तर्हत्य । मध्ये हत्वेत्यर्थः। भूषाऽपरिग्रह इति किम् ? अलं कृत्वा । अन्तर्हवा मूषिका गताः । पर्याप्तं कृत्वेत्यर्थः । परिगृह्येत्यर्थः । "तिरोऽन्तद्धों" [१२।१५०] इति ज्ञापकादन्तःशब्दस्य गिसंज्ञाऽपि । अङ्किविधिणत्वेषु प्रयोगदर्शनात् । अन्तर्दा । अन्तर्द्धिः । अन्तर्णयः ।
कणेमनः श्रद्धाघाते ॥१।२।१३६॥ श्रद्धाघातोऽभिलाषनिवृत्तिः। कणेमनःशब्दौ श्रद्धाघातेऽर्थे तिसंज्ञो भवतः । कणेशब्द ईबन्तप्रतिरूपको निसंज्ञोऽभिलाषातिशये वर्तते । मनःशब्दोऽपि तत्साहचर्यादिह तादृशः। कणेहत्य भुङ्क्ते । मनोहत्य भुङ्क्ते । श्रद्धाघात इति किम् ? तन्दुलावयवे कणे हत्वा गतः । मनो हत्वा गतः । चेतो हत्वेत्यर्थः।
पुरोऽस्तं झिः ॥१२॥१३७॥ पुरस् अस्तमित्येतौ झिसंज्ञौ क्रियायोगे तिसंज्ञौ भवतः । पुरःशब्दः "पूर्वाधरावराणों पुरधोऽसि" [४।१।१०३] इत्यत्र साधितः । अस्तंशब्दोऽनुपलब्धौ वर्तते । पुरस्कृत्य गतः । अस्तङ्गत्य पुनरुदेति । "नमःपुरसोस्त्योः " [५।४।२६] इति सलम् । झिरिति किम् ? पूः पुरौ पुरः कृत्वा गतः । अस्त कला काण्डं गतः ।
गत्यर्थवदेऽच्छः ॥१॥२॥१३८॥ झिरिति वर्तते । अच्छशब्दो झिसंज्ञः गत्यर्थे वदतो च तिसंशो भवति । अच्छगत्य । अच्छगम्य । “प्ये" [ ३८] "वा मः" [ ३६] इति वा मस्य खम् । अच्छोय। अच्छशब्दो दृढार्थे अाभिमुख्ये च वर्तते । मिरित्येव । उदकमच्छं गला।) ___अनुपदेशेऽदः ॥१।२।१३६॥ अवचनात्मिका प्रतिपत्तिरनुपदेशः। अदःशब्दोऽनुपदेशे तिसंशो भवति । अदःकृत्य । अनुपदेश इति किम् ? अदः कृत्वा गतः । एतत् कृत्वा गत इति परस्य कथयति ।
तिरोऽन्तौ ।।१।२।१४०॥ तिरःशब्दोऽन्तर्दाने तिसंज्ञो भवति । तिरोभूय । अन्तर्द्धाविति किम् ? तिरो भूला स्थितः । तिर्यग्भूला स्थित इत्यर्थः ।
वा कृषि ॥२२॥१४१॥ तिरःशब्दोऽन्तौं कृत्रि वा तिसंज्ञो भवति । प्राप्ते विकल्पः । तिरस्कृत्य । तिरः कृखा । "तिरसो वा" [१४३०] इति सत्वम् । अन्तर्दावित्येव । तिरः कृत्वा काष्ठं गतः ।
____ उपाजेऽन्वाजे ॥२२॥१४२॥ उपाजे अन्वाजे ईबन्तप्रतिरूपकावेतौ कृत्रि वा तिसंज्ञौ भवतः । उपाजेकृत्य । उबाजे कृत्या । अन्वाजे कृत्य । अन्वाजे कृत्वा । दुर्बलस्य भग्नस्य वा बलाधानं कृत्वेत्यर्थः ।
१. खाकृत्य ०, ब०, स० । २, खादिति अ०, ब०, स० । ३. अन्तर्णीयः ।
For Private And Personal Use Only