________________
-
-
mon
महावृत्तिसहितम् । किम् । मनसा पाटलिपुत्त्रं गच्छति । सम्प्रासाविति किम् । पन्थानं गच्छति । भार्या गच्छति। अन्यत्राभेदविवव । कटं करोति । ओदनं पचति शास्त्रं पठति । सग्योश्च क्रुधिद्रयोः। मित्रमभिक्रुध्यति । मित्रमभिद्रुह्यति । सिद्धिरनेकान्तादित्यतो भेदाभेदोभयधि वक्षा प्रत्येतव्या। परेषामपि प्रतिपत्तिगौरवं तुल्यम् । क क्रियाया व्याप्यत्वमिष्टं क च नेति दुर्बोधम् ॥
धारेत्तमर्णः ॥ १११ ॥ ऋणे उत्तम उत्तमम् । निपातनात् सविधिः।धारय तेरुत्तमो योऽर्थस्तत्कारकं सम्प्रदानसंज्ञं भवति । देवदत्ताय गां धारयति । उत्तमर्ण इति किम् । देवदत्ताय शतं धारयति दरिद्रः॥
परिक्रयणम् ॥ ११२ ॥ परिक्रीयते ऽनेनेति परिक्रयणं तत्कारक सम्प्रदानसंज्ञं भवति । शताय परिक्रीतः। सहस्राय परिक्रीतः। साधकतमत्वात् करणसंज्ञा प्राप्ता ॥
साधकतमं करणम् ॥ ११३ ॥ क्रियायामतिशयेन साधकं साधकतमं तत्कारक करणसगं भवति ।
दानेन भागं दयया सुरूपं ध्यानेन मोक्षं तपसेसिद्धिम् । सत्येन वाक्यं प्रशमेन पूजां
वृत्तेन जन्मानमुपैतिमयः॥ तमग्रहणं किमर्थम् । यथा रूपप्रस्तावे अभिरूपाय कन्या देयेत्युक्ते ऽभिरूपतमायेति गम्यते। एवमिहापि कारकाधिकारादकारके संज्ञावृत्तिर्नास्तीति साधकं कर