________________
emedies
जैनेन्द्रव्याकरणम् । त्यर्थानां धूनां द्रव्येण कर्मणा उपयोऽर्थः सम्प्रदानमिति । तेनेह न भवति । देवदत्तस्थ वस्त्रं दर्शयति । मित्रस्य कार्य कथयति । अजां नयति ग्रामम् । सम्यक् प्रदानं सम्प्रदान मिति चाश्रितम । तेनेह न भवति । नतः पृष्ठं ददाति। रजकस्य वस्त्रं ददाति । राज्ञो दण्डं ददाति । इह तर्हि कथं श्राडाय निगृण्हते। युद्धाय सन्नाति । तिष्ठते ब्राह्मणी छात्रेभ्यः । तादात् सिडम् । अथवा कथंचिद्विवक्षितभेदाभिः सन्दर्शनप्रार्थनाध्यवसायक्रियाभिः क्रियापि व्याप्या सती कर्मतयोपेयत्वात् सम्प्रदानत्वम । तेनेहापि भवति । रोचते देवदत्ताय मोदकः । स्वदते देवदत्ताय मोदकः । पुष्पेभ्यः स्पृहयति । मित्राय कथयति । मित्राय क्रुध्यति । मित्राय गुह्यति । मित्राय ईय॑ति । मित्रायासूयति । मित्राय कुप्यति । कोपादन्यत्र क्रुधादानां प्रार्थनादिभिः क्रियावि. शेषैर्भेदो न विवक्षितः इति क्रियायाः कर्मव्यपदेशो नास्ति । भार्यामीय॑ति । ओषधं देधि । शप उपलम्भनेऽर्थे भेदः । देवदत्ताय शपते। न्हुङ आत्मनि न्हवे भेदः । मित्राय नहुते । अन्यत्र मित्रं न्हुते । राधीक्ष्योर्दैवालोचने । पुत्राय राध्यति । पुत्राय ईक्षते । अन्यत्र पुत्रस्य राध्यति । पुनमीक्षते । यत्र च प्रत्यापूर्वः शृणोतिरभ्युपगमे वर्तते। देवदत्ताय प्रतिशृणोति । अनुप्रतिपूर्वश्च गृणातिर्यदि कथयितुः प्रोत्साहने वर्तते । आचार्याय अनुगृणाति । आचार्याय प्रतिगृणाति । इह भेदाभेदविवक्षा। देवदत्ताय श्लाघते । देवाय प्रणमति । देवं प्रणमति । गत्यर्थानां चेयामसम्प्राप्तावुभे । यथा ग्रामाय गच्छति । ग्राम गच्छति । ग्रामाय ब्रजति । ग्रामं व्रजति चेपायामिति
medias
।