________________
९०
महावृत्तिसहितम् ।
1
यद्येवं राजेत्यन्त्रापि प्रतिषेधः स्यात् । नैवं शक्यम् । अध इति पर्युदासोऽयं धादन्यत्र पदसंज्ञा विधीयते । धे तु पूर्वेण भविष्यति । यद्येवं सुवाचैौ सुवाच इत्यत्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वं प्राप्नोति । अस्तु तर्हि प्रसज्यप्रतिषेधः । राजेत्यत्र अकाविति प्रतिषेधात् ज्ञायते सौ पदसंज्ञा भवति । एवमप्यध इति अनन्तरस्य स्वादौ विधेः प्रतिषेधोऽयं सुवाचा सुवाच इत्यत्र पूर्वेण प्राप्तिरस्त्येव कर्तव्यrse यत्न उत्तरपदत्वे चापदादिविधौ त्यलक्षणं न भवतीति ॥
यचि भः ॥ १०६ ॥
स्वादावध इति वर्तते । यकारादावजादौ च स्वादा धवर्जिते पूर्व भसंज्ञं भवति । गार्ग्यः । वात्स्यः । दाक्षिः । प्लाक्षिः । पूर्वेण पदसंज्ञा प्राप्ता भत्वाद्यस्य ङयावेत्यखम् । नभङ्गिरोमनुषां वत्युपसङ्ख्यानम् ॥॥नभसा तुल्यं वर्तते इति नभस्वत् । अङ्गिरस्वत् । मनुष्यत् । वृष्णोवस्वश्वयेोवर्भसंज्ञेति केचित् । वृष्णो वसुः वृषण्वसुः । वृषणश्वः । मत्वर्थे स्तौ ॥ १०७ ॥
मत्वर्थे त्ये परतः सकारान्तं तकारान्तश्च भसंज्ञं भवति । तपस्वी | यशस्वी । विनस्मायामेवात्रज इति विन् । मतोर्विशेषणत्वेपि मत्वर्थग्रहणेन ग्रहणम् । यथा देवदत्तशाला पण्डिता आनीयन्तामित्युक्ते देवदत्तो विशेषणभूतोऽपि यदि पण्डितः सोऽपि आनीयते । भास्वान् । विद्युत्बान् । मरुत्वान् । स्ताविति किम् । राजबद् गृहम् ॥ कारके ॥ १०८ ॥