________________
-
जैनेन्द्रव्याकरणम् । ६१ कारक इत्ययमधिकारः। यदित उर्डमनुक्रमिष्यामः कारक इत्येवं तद्वेदितव्यम् ।कारकं निर्वर्तकं हेतुवा । कस्य ? क्रियायाः। का च क्रिया। ध्वर्थः । कारक इति निर्धारणलक्षणेयमीप । जात्यपेक्षकवचनम । सानो वा निर्देशः। कारकेषु यध्रुवं तदपादानं यः कर्मणापेयोऽर्थः स सम्प्रदानमित्यादि योज्यम् । वक्ष्यति ध्यपाये ध्रुवमपादानम् । ग्रामादागच्छति । स्वर्गादवरोहति । अपायक्रिययोनीमाऽपि निर्वर्तकः । देवदत्तोऽपि ध्रुवत्वाद् ग्रामोऽ पादानम् । कारक इति किम् । वृक्षस्य पर्ण पतति । कुड्यस्य पिण्डः पतितः। अपायक्रियाया निवर्तकत्वेन वृक्षः कुड्यञ्च न वि. वक्षितम् । अकथितञ्च । आपादानादिभिरकथित च कारक कर्मसंज्ञं भवति । प्राचार्य धर्म पृच्छति । कारक इति किम् । प्राचार्यस्य शिष्यं धर्म पृच्छति । आचार्यस्य शिष्यविशेषणत्वादकारकत्वम् । यदा कारकञ्चारकञ्च सर्वमकथितमप्रतिपादितमित्यर्थस्तदेदं प्रत्युदाहरणम् । असकीर्तितमिति व्याख्याने कारकमेव लभ्यते । प्रदेशेषु कारकाभिधानेऽपादानादीनां ग्रहणम् ॥
ध्यपाये ध्रुवमपादानम् ॥ १०६ ॥ धीवुद्धिः । प्राप्तिपूर्वको विश्लेषोऽपायः । धिया कृतो अपायो ध्यपायः।धीप्राप्तिपूर्वको विभाग इत्यर्थः । धीग्रहणे ह्यसति कायप्राप्तिपूर्वक एवापायः प्रतीयेत धीग्रहणेन सर्वः प्रतीयते । ध्रुवमविचलं अवधिभूतं वा । ध्यपाये साध्ये यद् ध्रुवं तदपादानसंज्ञं भवति । ग्रामादागच्छति । ग्रामो देवदत्तं नानुपतति इति ध्रुवः। अथवा अपायात्प्रागपि ग्रामः । अपाऽयेपि ग्राम एव । देवदत्त
SI
-
S