________________
tosmmissionnotati
on
Home
maabmonsumptin
ute
जैनेन्द्रव्याकरणम्।
८९ |
मनोखं पदसंज्ञाश्रयं नखच्च स्यात् । पदप्रदेशा पदस्थेत्येवमादयः॥
नः क्ये ॥ १०३ ॥ क्य इति क्यचक्यङ्ग्यषामविशेषग्रहणम् । क्ये परतो नान्तस्य पदसंज्ञा भवति । राजानमिच्छति राजीयति । राजेवाचरति राजायते । श्रचर्म चर्म भवति चीयते । पदत्वे सति नखं सिद्धम् । नखं सुविधिकृतुकीति नियमादन्यत्र सिद्धमिति क्यची तीत्वं दीरकृद् इति दीत्वच्च भवति। त्यखे त्याश्रयमिति पदत्वे सिद्ध नियमार्थमिदम् । नान्तमेव क्ये पदसंज्ञं भवति नान्यत् । वायति । शुच्यति । कुत्वं न भवति । नान्तं क्य एवेति विपरीतो नियमो नाशङ्कनोयः । अकाविति को नखप्रतिषेधात् ज्ञायते पदत्वे हि नखप्राप्तिः ॥
सिति ॥ १०४ ॥ सिति त्ये परतः पूर्व पदसंज्ञं भवति । भवतोऽयं भवदीयः । भवतष्ठसछसावितिछस् । यचिभइति पदसंज्ञायां बाधितायां पुनरारम्भः । एवमूणा अस्यास्तीति ऊर्णायुः । ऊणाहंशुभंभ्यश्च युमिति युस । यस्य याति खं न भवति । अहँय्युः । अहंयुः। शुभंय्युः। शुभंयुः । वा पदान्तस्येति परस्वविकल्पः॥
स्वादावधे । १०५ ॥ अध इति प्रतिषेधाद्वाया एकस्य सोर्ग्रहणम् । स्वादी धवर्जिते परतः पूर्वं पदसंज्ञं भवति। राजभ्याम् ।राजभिः । राजत्वम । राजता । अध इति किम् । राजानी राजानः।
manandament
a
p
paparwwwse