________________
८८
महावृत्तिसहितम् ।
किमर्थः । यस्यस्तदादि गुरित्युच्धमाने यस्य त्यः सम्भवति तस्यान्यस्मिन्नपि शब्दे गुसंज्ञा स्यात् । तथा च स्त्रियै इदं रूपथं भुवे इदं भवर्थम् । इयुवा प्रसज्येयाताम् । तदादिवचनं किमर्थम् । यत्रानेकस्त्यः सम्भवति तत्र तदादेर्गुसंज्ञा यथा स्यात् । करिष्यति । कुण्डानि । स्यान्तस्य समुमकस्य च गुसंज्ञायां यञ्यता दी घेकाविति दीत्वं सिद्धम् । गुरिति पुल्लिङ्गनिर्देश भपदसंज्ञासमावेशार्थः । इह बाभ्रव्य इति गुसंज्ञाश्रय आदेरै । भसंज्ञाश्रयः कढोरोऽस्वयम्भुव इति ओकारः । इह च यजुः पण्यमस्य याजुष्कः । गुसंज्ञाश्रम आदेरैप स्वादावधे इति पदत्वे पदसंज्ञाश्रयानि रिसत्वषत्वानि सिद्धानि । नपुंसकलिङ्गा हि गुसंज्ञा होतु रपत्यं हौत्र इत्यत्र सावकाशा सती पदसंज्ञया बाध्येत ।
सुम्मिडन्तं पदम् ॥ १०२ ।।
नः क्य इति नियमारम्भात् सुबिति प्रत्याहार - ग्रहणं नेपो बहोः । मिङा साहचर्याद्वा । सुबन्तं मिङन्तं च शब्दरूपं पदसं भवति । सूपकारः पचति । पदसंज्ञायो रित्वादिविधिः । वासूसादेशविधिश्व भवति । ननु सुम्मिनै त्यो त्यग्रहणे यस्मात्स तदादेर्ग्रहणमित्यन्तग्रहणं किमर्थम् । अन्यत्र संज्ञाविधौ तदन्तविध्यभावज्ञापनार्थम । तेन दृषत्तीर्णेत्यत्र क्तान्तस्य क्तक्तवतुइत्यनेन तसंज्ञा नास्तीति प्रान्तस्य तो न इत्येष विधिदृषद्दकारापेक्षया न भवति । इह च कुमारीगौरितरा तादी इत्यनेन तरान्तस्य भसंज्ञा नास्तीति भरूपेत्यादिना प्रादेशो न भवति । पदमिते नपा निर्देशो भसंज्ञया बाधा यथा स्यादित्येवमर्थः । अन्यथा राज्ञः राजन्य इत्यत्र भसंज्ञाश्रय