SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । स्फे रूः ॥ ६ ॥ प्र इति वर्तते । स्फसज्ञे परतः प्रो कसज्ञो भवति । कुण्डा । हुण्डा । स्पर्डी । नुविधावुपदेशाश्रयणात्प्रागेव नुम् । सरोरुहल इति अस्त्यः। अजाद्यताम् ।। दीः ॥ १० ॥ दीरिति द्विमात्रस्य सज्ञा । दीश्च रुसज्ञो भवति । ईहाञ्चके । लिटि परतः सरोरिजादेरित्याम् । शेषमाम्वत्तत्कृत्रइत्यत्रोक्तम् । रुरिति पुल्लिङ्गनिर्देशः किमर्थः। ईकारोकारविषयया मुसज्ञया बाधा मा भूत् । द्वयोः समावेशे हे परमवाणी३कइत्यत्र ऋसमोरिति मुसज्ञाश्रयः कप । उसञ्ज्ञाश्रयोऽनृतानन्तस्याप्येकैकस्य रोरिति पविधिश्च सिद्धः॥ यत्त्ये तदादि गुः ॥ ११ ॥ यो हि यस्मात्त्यः स तस्येत्युच्यते यस्य धोदो वा त्यस्तस्मिन् परतस्तदादिशब्दरूपं गुसनं भवति । केवलायाः प्रकृतेयंपदेशिवद्भावात्तदादित्वम् । दाग्धि । जुहोति । करिष्यति । कुण्डानि । गुकार्यमेषिडागमश्च । जसि नोङ इति दीत्वञ्च । यदिति सज्ञिनिर्देशार्थम् । अन्यथा तदादीति न लभ्येत तथाच त्ये सति पूर्वमात्रस्य गुसज्ञा स्यात् । तत्र को दोषः । इह न्यविशत प्राकरोदिति सगेरडागमः स्यात् । यत्त्य इति यच्छन्देन त्यस्य विशेषणं किम् । अस्यापत्यमिः। देवदत्त इं पश्येत्यत्र आदेरैप स्यात्। अखस्य स्थानिवद्भावाद्यवधानमिति चेत् योऽनादिषादचा पूर्वस्तं प्रति स्थानिवद्भावः । आदिपाच्चैषोऽचः पूर्वो निष्पनस्य पदस्य पदान्तरेणाभिसम्बन्धात् । यत्य इति ईनिर्देशः - -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy