________________
८६
महावृत्तिसहितम् ।
मिति सुसंज्ञा बाध्यते । कृत्याम् । धेन्वाम् । असखीति किम् । सख्युः । सख्यैौ । श्रसखीति पर्युदासोऽयम् । तेन शोभनः सखा सुसखा । अतिसखा । अतिसखेरागच्छति अतिसखेः । स्वस खिशब्दादन्यत्वमस्तीति सुसंज्ञा । मृद्ग्रहणेन तदन्तविधिरिति वा । खाः प्र इत्येव । पित्रे । मात्रे । सुप्रदेशाः सेोडितीत्येवमादयः ॥ पतिः से ॥ ७ ॥
पतिशब्दः स एव सुसंज्ञी भवति । प्रजापतिना । प्रजापतये | पतिरेव स इति कस्मान्न नियमः । एवं हि इन्द्रे स्था इति पूर्वनिपातवचनमनर्थकं स्यात् इन्द्रे पतिरिति ब्रूयात् । नान्यस्य से सुसंज्ञासम्भवः । अपि चानेकप्राप्तावेकस्य नियम इतिवचनमनर्थकं स्यात् । पटुमृदुगुप्त पटव इति । स इति किम् । पत्या । पत्ये ॥
प्रो धि च ॥ ८ ॥
प्र इति मात्रिकस्य संज्ञा । प्रो घिसत्रज्ञो भवति । भेत्ता । बोडा । धीति नपा निर्देशः किमर्थः । पुल्लिङ्गया रुसज्ञया बाधा यथा स्यात् । प्रयोजनमग्रे वक्ष्यते । चशब्दः सञ्ज्ञान्तरसमावेशार्थः । धि च भवति यच्चान्यत्प्राप्नोति तच्च भवति । इहाप्रविनय्य गत इति सुसंज्ञासमावेशः । विश्व ना च विनरौ तावाचष्टे णिच । णाविष्टवन्मृद इति इष्टवद्भावः । टिखम् । प्रशब्देन योगः । क्को प्यादेशे णिखे प्राप्ते धिसंज्ञायां सत्यां प्ये धिपूर्वादिति ऐरयादेशः सिडः । सुसंज्ञायाञ्च पूर्वनिपातः । अन्यथेकारोकाराभ्यामन्यत्र सावकाशा धिसंज्ञा इकारोकारविषयत्वादनवकाशया सुसंज्ञया बाध्येत ॥