________________
-
८४
महावृत्तिसहितम् । सन्वद्भावः प्रसज्येत । अविव्रजदित्यत्र धेर्दीत्वं स्यात् । नबिति किम् । षाभ्रव्यः । पुल्लिङ्गा गुसंज्ञा पुल्लिङ्गया भसंज्ञया बाध्यते ॥
खो स्त्र्याख्यो मुः ॥ ११ ॥ खियमाचक्षाते इति स्त्राख्यो । प्रे इति नियमादप्राप्तः सुपीति योगविभागाकः । यावोकारोकारौ स्च्याख्यौ तदन्तं शब्दरूपं मुसंज्ञं भवति । सुम्मिङन्तं पदमित्यत्रान्तग्रहणमन्यत्र सज्ज्ञाविधौ तदन्तविधिप्रतिषेधार्थमिह नाभीयते आमीयुवोरिति नियमारम्भात् । वाविति यणादेशादूकारो द्विमानस्तत्साहचर्यादीकारो द्विमात्रः । ईकारः। कुमारी । गौरी । लक्ष्मीः । ऊकारः। ब्रह्मबन्धूः। वामोरूः। यवागः । अयमारित्यादि मुसंज्ञाकायम् । वाविति किम् । मात्रे । दुहित्रे । स्त्राख्याविति किम् । हे ग्रामणीः। हे खलपूः । नेमा स्त्रियमेवाचक्षाते। आख्याग्रहणं किम्। शब्दार्थे स्त्रीत्वे यथा स्यात् पदान्तरगम्ये मा भूत् । ग्रामण्ये स्त्रियै। ग्वलप्वे स्त्रियै । उभयलिङ्गानामिष्वसनिप्रभृतीनां शब्दार्थ एव स्त्रीत्वम् । इष्वै असन्यै स्त्रियै । तथा गुणशब्दानां पय स्त्रियै । इदञ्चाख्याग्रहणस्य प्रयोजनम् । कुमारी भिवात्मानमाचरति आचारे सर्वमृझ्यः किबिति कि । कुमार्यै देवदत्ताय । लक्ष्मीमतिक्रान्ताय अतिलक्ष्म्यै । प्रागेव मुसंज्ञा वृत्ता तदन्तान्मुकार्य भवति । इह अतिकुमारये देवदत्ताय । प्रादेशे कृते आमनलविधावितिप्रतिषेधान्मुकार्य न भवति।
स्त्री ॥ १२॥