________________
-
जैनेन्द्रव्याकरणम् । प्रामाति । देवेभ्य इति सूत्रविन्यासे परमेत्वं भवति । अप्रवृत्ती पर्याये वा प्राप्ते वचनम् । कार्यकालं सज्ञापरिभाषमिति । यावन्ति कार्याणि तावछा सूत्रस्य भेद' इति विधिनियमश्चेदं सूत्रम् । यत्र परस्मिन्कार्यं कृते पुनः प्रसङ्गविज्ञानात्पूर्व तत्र विधिः। यत्र परमेव कार्य दृश्यते सकृद्गते परनिर्णये बाधितो बाधित एवेति । तत्र नियमः। तद्यथा द्वित्वस्यावकाशः । बेभिद्यते । जेरवकाशः । विचति । वेविच्यते इति परत्वाजौ कृते पुनः प्रसङ्गाद् द्वित्वम् । जसिशसः शिरित्यस्यावकाशः । कुण्डानि । डेसुटोरमित्यस्यावकाशः । यूयं राजानः । इह यूयं गुरु कुलानि इति पर एवाम्भावः । अतुल्यबलयोः स्पों न भवति । उत्सर्गादपवादः । परनित्यविचारणे भवेन्नित्यम् । नित्यात्तथान्तरङ्गम् । तस्मादप्यनवकाशं यत् । एकार्थयोरपि नास्ति विरोधः। धोर्विहितास्तव्यादयः पर्यायेण भवन्ति ॥
नब्बाध्य भासम् ॥ १० ॥ नपा निर्दिष्टो बाध्यो भवति आ साधिकारपरिसमारित्येषोऽधिकारो वेदितव्यः । लोके संज्ञासमावेश दृष्ट इन्द्रः शक्रः पुरन्दर इति । शास्त्रेऽपि त्यः कृड्य इति शेषोऽगएवेत्यवधारणाज्ज्ञापयति इहापि संज्ञासमावेशः स्यादिति यत्नः क्रियते । यत्र नपः समावेश इष्यते तत्र चशब्दापादानमस्ति । यथा यश्चैकाश्रय इति । वक्ष्यति प्रोधि च । विदि।भिदि । स्फे रुः । शिक्षिाभिक्षिानपा निर्दिष्टा घिसंज्ञा रुसंज्ञया बाध्यते । समावेशे हि अततक्षदित्यत्र धौ कच्यनके सन्वदिति कच्परे धौ परतः