________________
८२
महावृत्तिसहितम् |
ते
दत् । अलारिष्ट । मविधिपते द्युत्पुषादिलित्सर्त्तिशास्त्य - इत्यङ् । यद्यपि मे अविधानसामर्थ्यान्मविधिलब्धस्तथाप्यनुदातेत्करणं लुङोऽन्यत्र सावकाशमिति नित्यं मं स्यादिति विकल्पार्थं वचनम् । लुङीति किम् । द्यते । द्युता सहचरिता इतरेऽपि तथेोच्यन्त इति बहुवचननिर्देशः ।
स्यसनार्वृद्भ्यः ॥ ८७ ॥
द्युतादिष्वन्तर्भूता वृतादयः । वृतादिभ्यो वा मं भवति स्ये सनि च सति । वत्स्र्त्स्यति । अवस्र्त्स्यत् । विवृ त्सति । वर्तिष्यते । अवर्तिष्यत । विवर्तिषते । एवं वृध सृध स्यन्द इत्येते योज्याः । मविधा न हतादेरितीदप्रतिषेधः ॥
लुटि च क्लृपः ॥ ८८ ॥
लपेलु टि स्यसनेोश्च वा मं भवति । कल्प्ता । कलप्तारौ । कल्तारः । कल्प्स्यति । अकल्प्स्यत् । चिक्लप्सति । कल्पितारः । कल्पिष्यते । अकल्पिष्यत । चिकल्पिषते । क्लृपेर्वृतादित्वादेव स्यसनोर्विकल्पे सिद्धं चकारेणानुकर्षणमसन्देहार्थम् । क्लप इति लत्वं किमर्थम् । ऋकारस्थस्य रेफभागस्य रेफग्रहणेन ग्रहणं यथा स्यात् । क्लृप्तवान् । मातृणाम् । लत्वं णत्वच्चं सिद्धम् !! स्पढ़ें परम् ॥ ८६ ॥
स्पर्दे पर कार्य भवति । इयेाः प्रसङ्गयेोरन्यार्थ - येोरेकस्मिन् युगपदुपनिपाते सङ्घर्षः स्पर्द्धः । यञ्यता दी: सुपीति दीत्वस्यावकाशः । देवाभ्याम् । वृक्षाभ्याम् । बही झल्येदित्यस्यावकाशः । देवेषु । वृक्षेषु । इहाभयं