________________
R
जैनेन्द्रव्याकरणम् । अणो धेः प्राणिकर्तृकात ॥८४॥ अण्यन्तावस्थायां यो धुद्धिः प्राणिकर्तृकस्तस्मागण्यन्तान्मं भवति । आस्ते देवदत्तः । श्रासयति देवदत्तम् । शेते देवदत्तः। शाययति देवदत्तम् । प्रणाविति किम् । चेतयमानं प्रयोजयति । चेतयते । ननु च णिच इत्यत्र हेतुमपिणचो ग्रहणं व्याख्यातम् । अणाविति तस्यायं प्रतिषेधः। तेनान मं भवत्येव चेतयतीति। इदं तर्हि प्रत्युदाहरणम् । प्रारोहयमाणं प्रयोजयति आरोहयते । अथवा ऽणाविति धेर्विशेषणम् । अणी यो घिस्तस्य ग्रहणं यथा स्यात् । अन्यथा धुग्रहणे ण्यन्तविशेषणे इहैव मं स्याचेतयमानं प्रयोजयति चेतयति । प्रासयति इत्यादी न स्यात् । धेरिति किम् । कटं कुर्वाणां प्रयोजयति कारयते । प्राणिकर्तृकादिति किम् । शुष्यन्ति ब्रीहयः । शोषयते व्रीहीनातपः । प्राण्याषधिवृक्षेभ्योऽवयवे चेति पृथगनिर्देशादिह शब्दशास्त्रे वनस्पतिकायाः प्राणिग्रहणेन गृह्यन्ते ।।
क्यतो वा ॥ ५ ॥ क्यषन्तादा मं भवति । वावचनसामर्थ्यात् पक्ष दोऽपि भवति । अपटत्पटद्भवति पटपटायति । पटपटायते । अव्यक्तानुकरणादनेकाचोऽनिता डाजिति डान् । डाचीति छित्वम् । मौ डाचि नित्यमिति तकारस्य पररूपत्वम् । टिखम् । डाउलोहितात्क्यषिति क्यष । एवमलोहितो लोहितो भवति लोहितायति । लोहितायते ॥
द्युद्भ्यो लुङि ॥८६॥ कृपूपर्यन्ता द्युतादयः। वेति वर्तते । धुतादिभ्यो वा मं भवति लुङि परतः। व्यद्युतत् । व्यद्योतिष्ट । अलु