________________
८०
महावृत्तिसहितम् ।। ___ उपपूर्वाच्च रमेमं भवति । भार्यामुपरमति । पृथग्योग उत्तरार्थः॥
वा धेः ॥८१॥ उपपूर्वाद्रमेधा में भवति । यावद्भक्तमुपरमति । उपरमते । निर्वर्तत इत्यर्थः॥ विरिरंसतीत्यत्र पूर्वस्य दनिमित्ताभावात् सनः पूर्ववदिति दो न भवति ॥
बुध्युघ्नराजनेद्रोणेः ॥ २ ॥ काप्ये फले णिच इति दे प्राप्ते ऽयमारम्भः । बुध युध नश जन इङ्घद्रु श्रु इत्येतेभ्यो एयन्तेभ्यो में भवति । येऽत्राकर्मकास्तेषामणी धेः प्राणिकर्तृकादिति सिद्धे अप्राणिकर्तृकार्थ ग्रहणम् । प्रवत्यादीनामचल्याद्य. र्थम् । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति पापम् । जनयति पुण्यम् । अध्यापयति शास्त्रम् । प्रावयति ग्रामम् । प्रापयतीत्यर्थः । द्रावयति लोहम् । विलापयती त्यर्थः । स्रावयति तैलम् । स्यन्दयतीत्यर्थः ॥
चल्यद्यर्थात् ॥ ३॥ णेरिति वर्तते। चलेरर्थः कम्पनम् । अदेरर्थोऽभ्यवहारः।चल्यर्थेभ्यो ऽद्यर्थेभ्यश्चधुभ्यो ण्यन्तेभ्यो मं भवति । चल्यर्थेभ्यः। चलयति । चोपयति। कम्पयति । कम्पने चले रिति मित्सज्ञायां प्रादेशः। अद्यर्थेभ्यः। निगारयति । भोजयति । प्राशयति। सर्वत्राद्यर्थकादेनेष्यते । श्रादयन्ते देवदत्तेन । इह पय उपयोजयते देवदत्तेनेति भक्षणार्थाभावान्मं न भवति । सकर्मकार्थमप्राणिकर्तृकार्थञ्च सूत्रम् ।।
-
-
-