________________
-
जैनेन्द्रव्याकरणम् ।
७६ तः। ततः कर्तरि मं द्रव्यम् । यदि वा कर्तरि ने इत्यतः कर्तरि इति वर्तते । तेनेह न भवति । गम्यते । रम्यते।
परानुकृञः ॥ १५ ॥ परा अनु इत्येवंपूर्वात् कृतो मं भवति । गन्धनादिषु दःप्राप्तस्तदपवादोऽयम् । पराकरोति । अनुकरोति । काप्ये फले ममेव भवति । कस्मान्न नियमः । तत्रापूर्वो विधिरस्तु नियमो वास्त्वित्यपूर्व एव विधिर्भवति ॥
प्रत्यभ्यतिक्षिपः ॥ ७६ ॥ प्रति अभि अति इत्येवम्पूर्वात् क्षिपो में भवति । प्रतिक्षिपति। अभिक्षिपति । प्रतिक्षिपति । स्वरितेत्त्वादः प्राप्तः। एतेभ्य इति किम् । आक्षिपते ।
प्रवहः ॥ ७७ ॥ प्रपूर्वादहतेः काप्ये फले मं भवति । प्रवहति ॥
मृषः परेः॥ १८ ॥ परिपूर्वान्मृषतेम भवति । परिमृष्यति। परिमृष्यतः। परिमृष्यन्ति । वहिमपि केचिदनुवर्तयन्ति । परिवहति । परेरिति किम् । मृष्यते परीषहान् साधुः ॥
व्याङच रमः ॥ १६ ॥ वि आङ इत्येवम्पूर्वात् परिपूर्वाच रमेम भवति ।। विरमति । आरमति । परिरमति । अनुदात्तत्त्वादः प्राप्तः । एतेभ्य इति किम् । रमते । अभिरमते ॥
उपात् ॥८०॥
Nagar
m