________________
महात्तिसहितम् ।
णिचः ॥ ७१ ॥ णिजन्त हो भवति काप्ये फले । कटं कारयते । ओदनं पाचयते । लक्षणे स्वरितेत्करणात् ज्ञायते हेतुमणणिचा ग्रहणमिदम् । काप्ये फले इत्येव । परस्य कर्ट कारयति ॥ पादम्याड्यमाङ्यसपरिमुहरूचिनृद्धद्ववसः ॥२॥
णिच इति वर्तते । पा दमि आङयम् आङयस परिमुह-कचि-नृत्-धेट्-वद्-वस-इत्येतेभ्यो ण्यन्तेभ्यः कर्ताप्ये फले दो भवति। पाययते । दमयते । आयामयते यमोऽपरिवेषण इति मित्सज्ञाप्रतिषेधात् प्रो न भवति । आयासयते । परिमोहयते । रोचयते । नर्तयते । धापयते । वादयते । वासयते । पाधेटोरद्यर्थत्वान्नतिवद्योश्चल्यर्थत्वाचल्यद्यर्थादिति में प्राप्तमन्येषामा धेः प्राणिकर्तृकादिति तत आरम्भः ॥
वा वाग्गम्ये ॥१३॥ वागिति नेदं पारिभाषिकस्यार्द्धपात्रवागित्यस्य ग्रहणं किं तर्हि वाकछन्दः । पदान्तरमित्यर्थः । वाग्गम्ये काप्ये फले वा दो भवति। स्वं धान्यं पुनीते। स्वं धान्यं पुनाति । षड़भिर्योगैर्नित्यं दे प्राप्ते विकल्पोऽयम् ॥
मम् ॥ १४ ॥ नियमार्थम् । यस्मान्म दश्च प्रामोति तस्मान्ममेव भवति । पूर्वेण प्रकरणेन प्रकृतिनियमः कृतो दस्त्वनियत इत्युभयप्राप्तिरस्ति । याति । वाति । प्रविशति । आक्रामति धूमः । डौ द एव भवतीति अर्थनियमो व्याख्या: