________________
जैनेन्द्रव्याकरणम् ।
७१
वदन्ति शकुनयः । समुक्तावित्येव । सम्प्रवदन्ति वादिनः
क्रमेण ॥
ग्रो वात् ॥ ४६ ॥
अवपूर्वाद्विरतेह भवति । अवगिरते । श्रवगिरते । अवगिरन्ते । गृणातेरवपूर्वस्य प्रयोगो नास्ति । अवादिति किम् । गिरति । निगिरति ॥
प्रतिज्ञाने समः ॥ ४१ ॥
प्रतिज्ञानमभ्युपगमः । प्रतिज्ञानेऽर्थे सम्पूर्वाद्विरतेर्दो भवति । अनेकान्तात्मकं वस्तु सङ्गिरते । शतं सङ्गिरन्ते । प्रतिज्ञान इति किम् । सङ्गिरति ॥ उच्च। ऽधेः ।। ४८ ॥
उत्पूर्वाचरतेरर्दो भवति । गुरुवचनमुच्चरते । उक्रम्य चरनीत्यर्थः । अधेरिति किम् । धूम उच्चरति । उदूर्ध्व गच्छतीत्यर्थः ॥
समो भया ॥ ४६ ॥
सम्पूर्वाच्चरतेर्भा तेन योगे दो भवति । रथेन सञ्चरते । अश्वेन सञ्चरते । भान्ते प्रयुक्ते दो भवति न तु गम्यमाने । भायुक्तादिति किम् । त्रींल्लोकान् सञ्चरति जिनधर्मः । अत्र स्वात्मनेति करणं गम्यमानम् ॥ दातश्च सा चेदवर्थे ऽशिष्टव्यवहारे इति वक्तव्यम् ॥ * ॥ सम्पूवाणेो भायोगे देो भवति सा चेदवर्थे भा । इदमेव ज्ञापकमशिष्टव्यवहारे भाऽपि भवतीति 1 दास्या सम्प्रयच्छते || वृषल्या सम्प्रयच्छते कामुकः । सम इति सम्बन्धे ता तेन प्रशब्देन व्यवधानं न भवति । अबथ