________________
-
Deceas
ousbainamastosantatistatseaseDosantumsdewasanantatistiansduaadimanmaanamanhanismatalaananewdefitnesamaanemomaulanakubetter
महावृत्तिसहितम् । इति किम । पाणिना सम्प्रयच्छति । नेदं वक्तव्यम् । कर्मव्यतिहारे दः ।सहार्थे च भा द्रष्टव्या ॥
स्वीकृतावुपाद्यमः ॥ ५० ॥ पाणिग्रहणमविरोधो वा स्वीकृतिः । उपपूर्वाद्यमः स्वोकृतावर्थे दो भवति । कन्यामुपयच्छने । भार्यामुपयच्छते । स्वोकृताविति किम । परभार्यामुपयच्छति ॥
शुस्मृदृशः सनः ॥ ५१॥ श्रु-स्मृ-दृश-इत्येतेभ्यः सन्नन्तेभ्यो दो भवति । श्रुश्रूषते शास्त्रम् । सुस्मूर्षते पूर्ववृत्तम् । दिदृक्षते देवम । श्रुशिभ्यामकर्मकावस्थायां समो गम्प्रच्छीत्यादिना दो विहितस्तत्र सनः पूर्ववदित्येव दः सिडः सकर्मकाथ मिझ । स्मरतेरप्राप्ते विधानम् ॥
ज्ञः ॥ ५२ ॥ जानातेः सन्नन्तात् दो भवति । जिज्ञासते धर्मम् ।। ज्ञोऽपन्हवे धेः संप्रतेरस्मृताविति जानातेयॊ विहितः । तथा काप्ये फले ज्ञोऽगेरित्यत्र पूर्ववत्सन इति सिद्धस्ततान्यत्रेदं वचनम् ।।
नानाः ॥ ५३ ॥ अनुपूर्वाजानातेः सन्नन्ताद्दो न भवति । पुत्रमनुजिज्ञासति । भृत्यमनुजिज्ञासति ॥ सकर्मकादिति वक्तव्यम् ॥ * ॥ इह मा भूत् । अनुजिज्ञासते मनसा नो वक्तव्यम् । पूर्वेण प्राप्तस्यायं प्रतिषेधः । पूर्वेण च सकमकादेव सन्नन्ताद्दो विहितः । धेस्तु सनः पूर्ववदिति दः । अनोरिति किम् । पुत्रं जिज्ञासते ॥
bestnum
।
-