________________
umonese
samasumommawwarene
rnamamunmanduadidasimusalumARASHRONIXXDOLLARDHURIAOMINORANORMACIDEOneImatalalaanimation
महावृत्तिसहितम् । तिविमतिः । उपमन्त्रणं रहस्यनुकूलनम् । दीप्त्यादिध्वर्थेषु वदतेर्दो भवति । दीप्तौ । वदते चार्वी । तत्वार्थे दीप्यमानो वदतीत्यर्थः । उपोक्तौ। कर्मकरानुपवदते । उपेत्य सम्भाषत इत्यर्थः । ज्ञाने। वदते चार्वी । चन्द्रोदये जानाति वदितुमित्यर्थः । ईहे । कोऽस्मिन् क्षेत्रे वदते । को यता इत्यर्थः । विमता । गेहे विवदन्ते । गोष्ठे विवदन्ते । विचित्रं भाषन्त इत्यर्थः । उपमन्त्रणे । कुलभायोमुपवदते । परदारानुपवदते । अनुकू लयतीत्यर्थः । एतेष्विति किम् । वदति देव दत्तः॥
व्यक्तवाक्तमुक्तौ ।। ४४ ॥ व्यक्तवाची व्यक्तवर्णत्वान्मनुष्यादयः प्रसिडाः। सम्भूय वचनं समुक्तिः। व्यक्तवाचां समुक्ता गस्यमानायां वदतेो भवति । सम्प्रवदन्ते ग्राभ्याः । सम्प्रवदन्ते साधवः। सम्भूय भाषन्त इत्यर्थः । व्यक्तवागिति किम । सम्प्रवदन्ति कुक्कुटाः।समुक्ताविति किम् । देवदत्तोवदति जिनदत्तम्। सादृश्ये पुनरर्थे वा । *धेरिति किम । पूर्वमुक्तमनुवति। व्यक्तवाक्समुक्तावित्येव। अनुवदन्ति वाप्यः ॥
वा विवादे ॥ ४५ ॥ विवादा विप्रलापस्तत्र वर्तमानाद्वदतेर्वा दो भवति । विप्रवदन्ते सांवत्सराः । विप्रवदन्ति सांवत्सराः । विप्रवदन्ते वादिनः । विप्रवदन्ति वादिनः । युगपद्विरुद्ध वदन्तीत्यर्थः । व्यक्तवाग्ग्रहणमनुवर्तते । ततो व्यक्तवाकुसमुक्ताविति नित्ये प्राप्ने विकल्पः। विवाद इति किम् । सम्प्रवदन्ते साधवः ।व्यक्तवागित्येव । सम्प्र
* श्रात्रादर्शपुस्तके कश्चिदेशो नितितः।
RAMILAIsaiaRMIRANGANAHARAames
e
m