________________
ountedmmedianematomunismatamannatantammansiseaseanteenlandsometimesntinendmedeodendedaseemaanindestination
जैनेन्द्रव्याकरणम् । आरम्भ इति किम् । पूर्वेद्युः प्रक्रामति । अपरेधुरुपकामति । पूर्वस्मिन्नहनि यदनेन गतं तदपरस्मिन्नागच्छतीत्यर्थः॥
वा गेः॥ ३ ॥ अगेः क्रमो वा दो भवति । क्रमते । इयमप्राप्ते विभाषा । वृत्त्यादिषु पूर्वेण नित्यो विधिः। अगेरिति किम् । संक्रामति ॥
ज्ञो ऽपन्हवे ॥ ४० ॥ अपन्हवो ऽपलापः। अपन्हवेऽर्थे जानातेः भवति। शतमपजानीते । सहस्रमपजानीते । अपन्हव इति किम । चिदपि जानासि ॥
धेः ॥ ४१ ॥ जनाते. दो भवति । सर्पिषो जानीते । दध्नो जानीते। सर्पिषा द्धना चौपायनेन सम्पश्यत इत्यर्थः । ज्ञो स्वार्थ करण इति करणे ता। अकाप्ये फले इदं दविधानम् । धेरिति किम् । स्वरेणपुत्रं जानाति ॥
संप्रतेरस्मृतौ ॥ ४२ ॥ स्मृतिराध्यानं चिन्तनं वा । सम्प्रतिपूर्वाजानातेरस्मृत्यर्थे दो भवति । शतं सजानीते । शतं प्रतिजानीते । अस्मृताविति किम् । मातुः सञ्जानाति । पितुः सनानाति । स्म्रर्थदयेषां कर्मणीति ता॥ दीप्यु पोक्तिज्ञानेहविमत्युपमन्त्रणे वदः ॥ ४३ ॥
दीप्तिः प्रकाशनम् । उपेत्योक्तिरुपोक्तिः। उपसान्त्वनमित्यर्थः । ज्ञानं पदार्थावगमः। ईहो यत्नः । नानाम
Anemiam