________________
महावृत्तिसहितम् । वस्य क्रमते बुद्धिः। न प्रतिवध्यत इत्यर्थः । सर्गे। क्रमते जैनेन्द्राध्ययनाय । उत्सहत इत्यर्थः। तायने । नास्मिन्मूढे शास्त्राणि क्रमन्ते । न तायन्त इत्यर्थः । एतेष्विति किम् । कामति । क्रमो म इति दीत्वम् ॥
परापात् ॥ ३५ ॥ वृत्तिसर्गतायन इति वर्तते । पर-उप-इत्येवम्पूर्वात् क्रमेयॊ भवति । पराक्रमते । उपक्रमते। सिद्धे सत्या. रम्भा नियमाय परोपाभ्यामेव नान्यस्माः । अनुक्रामति । वृत्त्यादिष्वित्येव । पराक्रामति । उपकामति ॥
ज्योतिरुदतावाङः ॥ ३६ ॥ आपूर्वीत् क्रमेयोतिषामुद्गमनेऽर्थे दो भवति । आक्रमते सूर्यः। आक्रमते चन्द्रमाः। आक्रमन्ते ज्योतीषि । ज्योतिरुद्धताविति किम । आक्रामति धूमो हर्म्यतलम । आक्रामति माणवकः कुतपमित्यत्रोद्गतिरपि नास्ति ॥
वेः स्वार्थ ॥ ३७ ॥ स्वार्थः पादविक्षेपः । विपूर्वात् क्रमेः स्वार्थ दो | भवति । सुष्टु विक्रमते । साधु विक्रमते । विक्रमणमश्वादीनां गतिविशेषः । स्वार्थ इति किम् । विक्रामत्यजिनसन्धिः । स्फुटतीत्यर्थः॥
प्रादारम्भे ॥ ३८॥ आरम्भः प्रथमं कर्म । प्रपूर्वात् क्रम प्रारम्भे दो भवति । प्रक्रमते भाक्तुम् । परोपादित्यत उपादिति वर्त | ते। उपक्रमते भोक्तम् । आरभते भोक्तुमित्यर्थः।