________________
जैनेन्द्रव्याकरणम् |
निसंव्युपाद् हृः ॥ २५ ॥
पुनः संग्रहणाडेरिति निवृत्तम् । नि-सं-वि-उप इत्येवम्पूर्वात् ह्वयतेर्दो भवति । निह्रयते । संहयते । विह्नयते । उपह्वयते । हृयतेरात्वेन विकृतनिर्देशेऽपि प्रकृतिग्रहणं न व्यो लिटोति निर्देशात् ॥ आङः स्पर्द्धे ॥ २६ ॥
६५
स्पर्डः पराभिभवेच्छा । आङपूर्वात् ह्रयतेः स्पर्द्धवि - षये दो भवति । मल्लो मल्लमाह्वयते । छात्रछात्रमाह्वयते । स्पर्द्धयाह्वानं करोतीत्यर्थः । स्पर्द्ध इति किम । गामाह्वयति ॥
गन्धनावक्षेप सेवा न्यायप्रतियत्नप्रकथेोपयेोगे कृञः ॥ २७ ॥
1
गन्धनं सूचनम् । अवक्षेपो भर्त्सनम् । सेवा संश्रयः । अविधिना प्रवृत्तिरन्यायः । श्रविद्यमानार्जनं विद्यमान संस्कारो वा प्रतियत्नः । प्रबन्धेन कथनं प्रकथा | उपयोगो धर्मादिनिमित्तो व्ययः । गन्धनादिष्वर्थेषु वर्तमानात् कृञो दो भवति । गन्धने । उत्कुरुते । अयमिमं सूचयतीत्यर्थः । अवक्षेपे । स्येनो वर्तिकामुपकुरुते । भर्त्सयतीत्यर्थः । सेवायां । गणानुपकुरुते । सेवत इत्यर्थः । अन्याये । परदारानुपकुरुते । न्यायमनपेक्ष्य तेषु प्रवर्तत इत्यर्थः । प्रतियने । एधा दकस्योपस्कुरुते । प्रतियत्ने कृञ इति कर्मणि ता। उपात्प्रतियत्नवैकृतेत्यादिना सुट् । प्रकथायाम् । जनापवादान् प्रकुरुने। उपयेागे । शतं प्रकुरुते । धर्माद्यर्थं विनियुत इत्यर्थः । एतेष्विति किम् । कटं करोति । आविः