________________
nandasstatusanditamountinuotosmaranteetainedesawrappuramoment
maandanaatantwaaurandarmanen
महावृत्तिसहितम् । वितपते । ज्वलतीत्यर्थः । उत्तपते । धेरित्येव । उत्तपति सुवर्ण सुवर्णकारः। वितपति पृथ्वीमादित्यः। दहतीत्यर्थः । व्युद इति किम् । निपति । दीप्यत इत्यर्थः॥ स्वाङ्गकर्मकाचेति वक्तव्यम् ॥ * ॥ वितपते पाणिम् । उत्तपते पाणिम् । आत्मीयमङ्गं स्वाङ्गं न पारिभाषिक तत्र तेनेह न भवति । वितपति परपाणिम् । उत्तपति देवदत्तो यज्ञदत्तस्य पृष्ठ म् ॥
प्राङो यमहनः ॥ २३ ॥ आपूर्वाभ्यां यम हन इत्येताभ्यां धिभ्यां दो भवति। आयच्छते । दीर्घा भवतीत्यर्थः । अाहते । आघ्नाते। आध्नते । यमः काप्ये फले समुदायमा ग्रन्थ इति दः सिहोऽन्यत्रेदम । धेरित्येव । आयच्छति रज्जुम । आहन्ति पापम् ॥ स्वाङ्गकर्मकाचेति वक्तव्यम् ॥ * ॥ आहते वक्षः । स्वाङ्गादिति किम् । परकीयाने कर्मणि मा भूत् । आहन्ति शिरः परकीयम् ॥
समो गम्प्रच्छिस्वच्छिश्रविद्शः ॥ २४ ॥
धेरिति वर्तते। सम्पूर्वेभ्यो गम-प्रच्छि-स्-ऋच्छि श्र-विद्-दृश-इत्येतेभ्यो दो भवति । सङ्गच्छते । संपृच्छते। संस्वरते । क इति ऋच्छतेरियर्तश्च ग्रहणम । समृच्छते । समियते। समरिष्यते । ऋच्छतेरनादेशस्य ग्रहणम । आदेशस्य ऋग्रहणेन सिद्धत्वात् । समृच्छिष्यते । संशृणुते। (विदेरादादिकस्य ग्रहणं मवद्भिस्साहचर्यात् । संवित्ते। संपश्यते । धेरित्येव । सङ्गच्छति सुहृदम् । संवेत्ति धर्मम । गेरस्यत्यूयोर्वेति वक्तव्यम् ॥ * ॥ निरस्यते । निरस्यति । समूहति । समूहते ॥
masan
drurammeetinumanandHemammeetuReadonlaenilionishaadebasode
amasomaaseemewomana