________________
Mode
जैनेन्द्रव्याकरणम् ।
उद ईहे ॥ १६ ॥ उत्पूर्वात्तिष्ठतेरीहार्थे वर्तमानादो भवति । गेहे उत्तिष्ठते । धर्म उत्तिष्ठते । घटत इत्यर्थः । ईह इति किम् । अस्माद् ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः । ईह इति ईहतेः पर्यायग्रहणात् गम्यमानायामीहायां न भवति । आसनादुत्तिष्ठति । उत्तिष्ठति सेना । अस्माद् ग्रामाद्दिष्टिः (?) पञ्च पुरुषा उत्तिष्ठन्ति ॥
उपान्मन्त्रकरणे ॥ २० ॥ उपपूर्वात्तिष्ठतेमन्त्रकरणे दो भवति । जगत्योपतिष्ठते । तृष्टुभापतिष्ठते । मन्त्रकरण इति किम । भती रमुपतिष्ठति भायी यौवनेन । उपादिति योगविभागः । तेन देवपूजासङ्गतिकरणमित्रकरणपथिषु दो भवति । देवपूजायाम् । सीमन्धरमुपतिष्ठते । सङ्गतिकरणे । रथिकानुपतिष्ठते । मित्रकरणे । महामात्रानुपतिष्ठते । सङ्गतिकरणमुपश्लेषः । मित्रकरणं मानसः सम्बन्धः। पथि। अयं पन्थाः स्रघ्नमुपतिष्ठते ॥ वा लिप्सायामिति वक्तव्यम् ॥ * ॥ भिक्षुको दातृकुलमुपतिष्ठते । उपतिष्ठति वा ॥
धेः ॥ २१ ॥ अकर्मको धिरिति । उपपूर्वात्तिष्ठतेर्धी भवति । यावद्भुक्तमुपतिष्ठते । यावदोदनमुपतिष्ठते । भोजने भोजने ओदने ओदने उदीक्षत इत्यर्थः । धेरिति किम । स्वामिनमुपतिष्ठति ॥
व्युत्तपः ॥ २२ ॥ धेरिति वर्तते। वि उदित्येवम्पूर्वात्तपतेर्डेो भवति ।
man
madmaan
-
-