________________
महात्तिसहितम् । गैरेव ग्रहणादिह न भवति । माणवकमनु क्रीडति । माणवकेन सहेत्यर्थः। भार्थ इत्यनुना योग इप गितिसज्ञाप्रतिषेधश्च । शिक्षेजिज्ञासायां दो वक्तव्यः । शकेः सन्नन्तस्येदं ग्रहणम् । विद्यासु शिक्षते । धनुषि शिक्षते ।। कर्मविवक्षायां शिक्षां चक्रे । हरतेगतिताच्छोल्ये । पैतृ कमवा अनुहरन्ते मातृकं गावः । मातुरागतं ऋतष्ठणिति ठण । गतिताछील्य इति किम् । मातरमनुहरन्ति । शप उपलम्भन इति च वक्तव्यम् । वाचा शरीरस्पर्शनमुपलम्भः । देवदत्ताय शपते । उपलम्भन इति किम् । शपति॥
___ समो ऽकूजे ॥ १६ ॥ सम्पूर्वात् क्रीडो ऽकूजेऽर्थे दो भवति । संक्रीडते। संक्रीडेते । संक्रीडन्ते । अकूज इति किम् । संक्रीडन्ति शकटानि । अव्यक्तं शब्दं कुर्वन्तीत्यर्थः ॥
स्थो ऽवविप्राच्च ॥ १७ ॥ अव विप्र इत्येवंपूर्वीत् सम्पूर्वीच तिष्ठते भवति। अवतिष्ठते । वितिष्ठते । प्रतिष्ठते । सन्तिष्ठते ॥
ज्ञीप्सास्थेयोक्तौ ॥ १८ ॥ परपरितोषार्थमात्मरूपादिप्रकाशनं ज्ञीप्सा । स्थीयते ऽस्मिन् निर्णयरूपेणेति स्थेयः । बहुलवचनादधिकरणे य । जीप्सायां स्थेयोक्तौ च तिष्ठतेः भवति । ज्ञीप्सायाम् । तिष्ठते कन्या। छात्रेभ्यस्तिष्ठते ब्राह्मणी। छात्रेभ्यः स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः। ज्ञीप्सनक्रियया कर्मव्यपदेशभाजां छात्राणामुपेयत्वात् संप्रदानत्वम् । स्थेयोक्ती । देवदत्ते तिष्ठते । त्वयि तिष्ठते । मयि तिष्ठते । संशयानिश्चयं करोतीत्यर्थः।।
-
-