________________
जैनेन्द्रव्याकरणम् |
६१ णम् | अनुकार्येणार्थवत्त्वान्मृत्वे सति स्वादिविधिः । प्रकृतिवदनुकरणमिति धुत्वातिदेशादियादेशः । उत्तरत्र जेरिति निर्देशात् वत्करणादपि स्वाश्रयोऽपि कचिदेव ॥ विपराजेः ॥ १३ ॥
वि परा इत्येवंपूर्वाज्जयते भवति । विजयते । पराजयते । अत्रापि सनिर्देशः समर्थस्य गेग्रहणार्थः । तेनेह न भवति । बहुविजयति वनम् । परा जयति सेना ॥ आङो दो ऽव्यसने ॥ १४ ॥
व्यसनं कसनं विवरणं वा । अन्येषां दारूपाणां व्यसने वृत्तिर्नास्ति । आङपूर्वाद्ददातेरव्यसनेऽर्थे दो भवति । विद्यामादत्ते । अकत्रीप्ये फले प्रापणार्थमिदम् । अव्यसनमिति किम् । आस्यं व्याददाति । पिलकं व्याददाति । विपादिकां व्याददाति । स्वाङ्गकर्मकादिति वक्तव्यम् । इह मा भूत् । व्याददते पिपीलिकाः पतङ्गमुखम् । यद्यकीयेफले प्राप्तस्याव्यसन इति प्रतिषेधः कीप्ये फले व्यसने दः प्राप्रोति । नैवम् । अव्यसन इति योगविभागाद् येन केनचित्प्राप्तस्य प्रतिषेधः । श्राङिति ङित्करणं किम् । आा ददात्यसौ भिक्षामिदानीमहमस्मार्षम् | आङिति योगविभागः । तेन स्थः प्रतिज्ञाने दो भवति । अनित्यं शब्दमातिष्ठन्ते । गमयतेः कालहरणे | आगमयस्व तावद्देवदत्त । नुप्रच्छिभ्याञ्च । आनुते शृगालः । आपृच्छते गुरुमिति सिद्धम् ॥
क्रीडेा ऽनुपर्याङः ॥ १५ ॥
अनुपरि आङ इत्येवंपूर्वीत् क्रीडो दो भवति ॥ अनुक्रीडते । परिक्रीडते । आक्रीडते । गिसाहचर्यादना