________________
mmontane
o
nesiamombaonmameromematment
महात्तिसहितम् । स्वरितेनाधिकारः ॥ ५॥ स्वरितेन लिङ्गेनाधिकारो वेदितव्यः । त्यः परः ड्याम्मृद इत्येवमादिः स्वरित इति प्राचार्यप्रतिज्ञया लिङ्ग म् । व्यामिश्रः स्वरित इत्यस्याचा धर्मत्वेन रोरीत्येवमा दिषु हल्स्वसम्भवादग्रहणम् । अधिकारो विनियोगे। व्यापार इत्यर्थः । स्वरितेनेति योगविभागाद्यथासंख्य मपि स्वरितेन ज्ञेयम् ॥
ङनुदात्तेतो दः ॥ ६॥ उकारतोऽनुदात्तेतश्च धोर्द एव भवति । डितः। घूङ । सूते । शीङ । शेते । इङ् । अधीते । अनुदात्ततः । आस । आस्ते । वस । वस्ते । चक्ष । आचथे । चक्षेङित्करणमनर्थकमनुदात्तत्त्वाद्युच् । विचक्षणः । लः कर्मणि च भावे च धेरिति धोलकारा पिहिताः। तद्वारेण दविधी मविधौ च प्राप्ते प्रकृतिनियमोऽयम् । अनुदात्ततेो द एव भवति । दस्त्वनियमः । सोऽन्येभ्योऽपि प्राप्तः। ममिति द्वितीयो नियमः। यत्र मञ्च दश्च प्राप्ताति तत्र ममेव भवति। यदि त्यनियमः स्यान् डनुदात्तेत एव दो भवति नान्येभ्यस्तदान्यत्र मस्य सिद्धत्वान् ममिति सूत्रमनर्थकं स्यात् । तदारम्भादिष्टावधारणं सिद्धम् । किञ्च त्यनियमे हिड्नु दात्ततोऽपि में प्राप्नोति तन्निवृत्तये शेषान्ममिति शेषग्रहणं कुर्यात् । तदकरणं च ज्ञापकं प्रकृतिनियमस्य ॥
ङौ ॥७॥ किरिति भावकर्मणाः सञ्ज्ञा। डौ द एव भवति । आस्यते भवता। सुप्यते भवता । भावस्यैकत्वं युष्मदस्मदर्थाऽसम्भवश्च । कारकेभ्यः पृथग्भूतो धोरर्थः स्वप्रधा
AMMUNISonam
maya
-