________________
जैनेन्द्रव्याकरणम् ।
५६ नको भावः । एति जीवन्तमानन्द इत्यत्र आनन्दा बाह्य एतेः कर्तृत्वेन विवक्षित इति दो न भवति । कर्मणि । क्रियते कटः । कर्मकर्तरि । लूयते केसरः । भिद्यते कुसूलः स्वयमेव । अर्थनियमोऽयम् । दस्तु कर्तर्यपि प्राप्तः स ममि. त्यनेन नियमेन निवय॑ते । यदि ङावेव दो भवतीति त्यनियमः स्याद् भावकर्मणारनियतत्वान्मेऽपि प्राप्ते तन्नि प्रत्यर्थं शेषात् कर्तरि ममित्युत शेषाकरणं ज्ञापकमर्थनियमस्य । एवं प्रकृतिनियमे ऽर्थनियमे च सति ममित्यत्र कर्तृग्रहणं शेषग्रहणञ्च प्रत्याख्यातम् ॥
कर्तरि ने॥८॥ कर्तरि नार्थे दो भवति । कर्मव्यतिहारे अ इति जो विहितस्तत्सहचरितः कर्मव्यतिहारो आर्थः । कर्मव्यतिहारश्च कर्मग्रहणसामर्थात् क्रियाव्यतिहारः । अन्यस्य कर्तुः मिष्टां क्रियां यदान्यः करोति तदिष्टां चेतरस्तदा क्रियाव्यतिहारः। व्यतिलुनीते। व्यतिपुनीते। आरम्भसामयात् कर्तव सिद्ध कर्तृग्रहणमुत्तरार्थ न गतिहिंसार्थेभ्य इति । कर्तरि कर्मव्यतिहारे विहतस्य दस्य प्रतिषेधो यथा स्थादिह मा भूत् । व्यतिभूयते सेनया । व्यतिगम्यन्ते ग्रामाः। व्यतिहन्यन्ते दस्यवः। क्रियाव्यतिहार इति किम् । पारिभाषिककर्मव्यतिहारे मा भूत् । देवदत्तस्य धान्यं व्यतिलुनन्ति ॥
न गतिहिंसार्थभ्यः ॥६॥ गत्यर्थेभ्यो हिंसार्थेभ्यश्च धुभ्य आथै दो न भवति । व्यतिगच्छन्ति । व्यतिधावन्ति । हिंसार्थेभ्यः । व्यतिहिं सन्ति । व्यतिभिन्दन्ति । व्यतिछिन्दन्ति । व्यतिपिंषन्ति।
-
-