________________
जैनेन्द्रव्याकरणम् । कार्यार्थी प्रयोगीत् ॥ ३॥ शाने अन्यस्य कार्यार्थमाश्रीयते प्रयोगे च न श्रूयते यः स इत्सझो भवति । अहउण् णकारः। त्रिमिदा स्नेहने टुनदि समृडौ। डुकृञ करण इत्यादिषु भिटुडवो डेङस्यादिषु उकारः। कार्यार्थ इति किम् । कुलाख: कुलीनः । परमकुलीन इत्यत्र खकारस्याऽप्रयोगित्यात् खित्यझेर्मुमचइति मुम् प्रसज्येत । अप्रयोगीति किम् । परमकुलीनः । ईनादेशः कार्यमिति मुम् स्यात् । ननु कार्यार्थोऽप्रयोगी चखः कथं नेत्सः । उभयविशेषणोपादानात् । अन्यस्य कार्यार्थो भूत्वा योऽप्रयोगीत्यदोषः । अन्वर्था चेयमित्संज्ञा । एति गच्छति नश्यतीत् तेन तस्य लोप इति न वक्तव्यम् । प्रयोगानुसारेणाप्रयोगित्वावगतेः । प्रतिपत्ति. गौरवमिति चेदुपदेशेऽजनुनासिकदित्यनुनासिकत्वमपि प्रयोगादेवावसीयत इति समानम् । इत्प्रदेशाष्टिदादिरित्येवमादयः॥
यथासंख्यं समाः॥४॥ यथासंख्यं यथाक्रम समाः शिष्यमाणा भवन्ति । यथासंख्यं यावद्यथाववृत्यसादृश्य इति हसः । समास्तुल्याः । तुल्यत्वञ्च द्विष्ठमतः पूर्वोद्दिष्टानामनु द्दिष्टाः समाःज्ञेयाः। मिप्यस्थतोऽतंततां प्रथमसंख्यस्य मिपः प्रथमसंख्योऽम् इत्येवमादि योज्यम् । समा इति किम् । सङ्घाकलक्षणो. षेऽज्यनिजामण सङ्घादयश्चत्वारोऽर्था अनादयस्त्रयो वैषम्यात् सङ्घादिषु चतुर्वर्थस्वत्रंतादण भवति । तथा यमन्तादिनन्ताच्च । समशब्दस्य सर्वार्थे युक्तार्थे च सर्वनामसञोक्तान तुल्यार्थे ।