________________
महावृत्तिसहितम् ।
भूवादयो धुः ॥१॥ भू इत्येवमादयः शब्दाः प्रत्येक धुसज्ञा भवन्ति । भू एच स्पर्द्ध इत्यादि ।धारित्यधिकृत्य लडादिविधिः कार्य भवति । एधते स्पर्द्धते । आदिशब्दो व्यवस्थावाची। तेन आणवयत्यादीनां निरासः । अर्थपदोपलक्षितानाञ्च व्यवस्था । ततो धुसमानशब्दानां यावामादिवित्येवमादीनां सर्वनामविकल्पप्रतिषेधस्वर्गादिवाचिनामग्रहणम् । भूशब्द आदिरेषामिति वसे चादय इति प्रामोति । नैवम् । भूवादीनां वकारोऽयं लक्षणार्थः प्रयुज्यते । इकोयएभिर्व्यवधानमेकेषामिति संग्रहः । तेन त्रियम्बकं यजामहे वायुवम्वरयोरिवेत्यादि सिद्धम् । भुवो वार्थ वदन्तीति भवते. सम्पदादिपाठाक्विप् । भुवं भवनं क्रियां वदन्तीति बहुलवचनादण्यन्तादपि वदेरौणादिके इत्रि कृते भूवादयः। अस्मिन्पक्षे शिशप्रयोगादाणवयत्यादीनां क्षेपः । भ्वर्था वा वादयः स्मृताः। अथवा वा गतिगन्धनयोरित्यस्मात्पर प्रादिशब्दः। भुवो वादयोवाच्यवाचकभावसम्बन्धे ताभ्वर्थ इत्यर्थः। ये तु वकारो मङ्गलार्थ इति पठन्ति । त इदं वाच्या। यद्याधिक्याबकारो मङ्गलमतिप्रसङ्गः स्यात् । एतेन तत् ज्ञानं प्रत्युक्तम् । मङ्गलाभिधेयश्च वकारो नाममालादिषु न पठ्यते । उत्तौ मध्यनिपातश्च चिन्त्यः। धुप्रदेशाधोर्यकियासमभिहार इत्येवमादयः॥
अकर्मको धिः॥२॥ अकर्मको धुधिसज्ञो भवति । कत्रीप्यमित्यादिना लक्षणेन विहितं कर्म तदविवक्षितं वा नास्याकर्मकः।। धिप्रदेशा अनो.रित्येवमादयः ॥
Anantas
-
-