________________
जैनेन्द्रव्याकरणम् ।
५३
1
एतदप्ययुक्तम् । अवशिष्टः शब्दो निवृत्तशब्दस्य यद्यर्थमभिधत्तं तदास्य द्वित्वेऽपि वृत्तिरिति किमेकशेषेण । अथ नाभिधत्ते तदा पश्चादपि स एवार्थः कथमनेकत्रार्थे वृत्तिः । सरूपाणां द्वन्द्व निवृत्त्यर्थमेकशेष इत्यपि नास्त्यनभिधानात् । न हि भवति द्वौ च द्वौ च द्वरिति । अथ विरूपशब्दार्थ एकशेषः । तथाहि । वृडो यूना तल्लक्षणश्चेदेव विशेषः । अपत्यमन्तर्हितं वृद्धम् । एवकारो भिन्नक्रमः । विशेषो वैरूप्यम् । वृद्धः शिष्यते यूना सह वचने वृद्ध युवलक्षणे एव यदि विशेषः समानायां प्रकृतौ । गार्ग्यश्च गार्ग्यायणश्च गाग्यैौ । दातिश्च दाक्षायणश्च दाती । वृद्ध इति किम् । औपगवश्चानन्तर औपगविश्व युवा औपगवौपगवी । गार्गि गायणा । यूनेति किम् । गर्गश्च गार्ग्यश्च गर्गगाग्यैौ । तल क्षण एवेति किम् । गार्ग्य वात्स्यायनौ । अत्र प्रकृतिविशेषो scयस्ति । एवकारः किमर्थः । भागवित्तिभागवित्तिका । भागवित्तेरपत्यं युवा । दोष्वण सैौवीरेषु प्राय इत्यत्र क्षेत्रस्यापि भावान्न । तल्लक्षण एव विशेष इति किम् । बैदश्च वृडो वेदश्व युवा वैदवेदौ । तल्लक्षण वैरूप्याभावात् द्वन्द्वो भवत्येव । स्त्री पुंवच । स्त्री वृद्धा यूना सह वचने शिष्यते पुंवद्भावश्वास्या भवति तल्लक्षण एव यदि विशेषः । गार्गी च गायीयपश्चगाग्यौ । दाची च दाक्षायणश्च दाक्षी । नेदं द्वयं वक्तव्यम् । जीवति वंश्ये वृद्धं इयमभिधत्ते । अजीवति वृडयूनोर्द्वन्द्वो नास्त्यनभिधानात् । जीवति वंश्ये वडा स्त्रीं युवानश्च सामान्येन वृद्धशब्द एवाभिधत्ते द्वन्द्वस्य चानभिधानम् । यदपि पुमान् स्त्रिया सह वचने शिष्यते तल्लक्षण एव यदि विशेषः । कठश्च कठी च कठौ । मयूरश्च मयूरी च मयूरौ । प्राणिधर्मयेोः स्त्रीपुंसयेोर्ग्रहणादिह