________________
mammonsoorate
seumsARIES
महावृत्तिसहितम् । व्रीहिः । विशेषविवक्षायां बहुत्वम् । सम्पन्ना ब्रीहयः । संख्यानुप्रयोगे जातिविवव । एको ब्रीहिः सम्पन्नः सुभिक्षं करोति । अस्मदो व्योरेकस्य च वा बहुत्वं न वक्तव्यम् । कत्वमहं ब्रवीमि । आवांबवः । वयं बम इति । आत्मन इन्द्रियाणां च स्वातनयं पारतच्यं विवक्षया भविष्यति । कदाचिदात्मा स्वतनो भवति । अनेनाणा पश्यामि । कदाचिदिन्द्रियाणां स्वातच्यम् । इदम्मेऽपि पश्यति । तत्रात्मनः स्वातत्र्यविवक्षायामेकत्वमिन्द्रियाणां स्वाव्ये बहुत्वम् । सविशेषणस्यात्मविवक्षैव । अहं देवदत्तो ब्रवीमि अहं साधुर्ब्रवीमि । युष्मदि गुरावुभयविवक्षा। त्वं मे गुरुः । यूयं मे गुरवः । एतच शब्दशक्तिस्वाभा व्यात् । फल्गुनीप्रोष्ठपदानां नक्षत्रे दयाबहुत्वं वेति वक्तव्यम् । कदा पूर्व फल्गुन्या कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे पूर्वाः प्रोष्ठपदाः। यदा फल्गुनीसमीपगते चन्द्रमसि फल्गुनीशब्दो विवक्ष्यते तदा बहुत्वमन्यदा बित्वम् । स्वाभाविकत्वादभिधानस्यैकशेषानारम्भः । स्वभावत एव शब्द एकशेषमनपेक्ष्य एकत्वद्रित्वबहुत्वेषु वर्तते । अत एवैएकशेषानारम्भः । एकत्वादीनां प्रकृत्यु. पात्तानामभिव्यक्तये विभक्त्युपादानम् । यथा एको मौ बहवः पञ्च सप्तेति । एवं वृक्षः वृक्षौ वृक्षाः । अथ प्रत्यर्थ शब्दनिवेशानैकेनानेकस्याभिधानं तत्रानेकार्थाभिधाने अनेकशब्दत्वं प्रसक्तमत एकशेषः । अत्रोच्यते । यदि भिन्नेष्वभिन्नाभिधानप्रत्ययहेतुर्जातिः शब्दार्थः । तस्याः प्रत्यायने एक एव शब्दः समर्थः । अथ द्रव्यं शब्दार्थः । तच्चानेकं व्याहत्ताभिधानबुद्धिलिङ्गम् । तस्याभिधित्सायामनेकशब्दत्वे प्राप्त एकशेष इति ।
opan