________________
Romasan
MADHUDUsetana
जैनेन्द्रव्याकरणम् । बर्या अदूरभवो ग्रामः । वरणादित्वादुस् तस्य वनं बदरीवनम् । वनस्पतित्वातिदेशो मा भूत् । विभाषाषधिवनस्पतिभ्य इति णत्वं प्रसज्येत । वेति व्यवस्थितविभा. षानुवृत्तर्मनुष्याथै उसि विशेषणानां न लिङ्गसंख्याति देशः । पञ्चाला अभिरूपः। वद्रिका दर्शनीयः । पञ्चेव मनुष्य इवे प्रतिकृती क इतिकः । तस्योस् मनुष्य इत्युस् । खलतिकादिषु संख्यातिदेश एव । खलतिकस्य पर्वतस्यादुरभवानि खलतिकं वनानि । हरीतक्यादिषु लिङ्गातिदेश एव । हरीतक्या अवयवः फलानि हरीतक्यादेरित्युस् । हरितक्यः फलानि । तिष्यपुनर्वसूनां भइन्छे द्वित्वम् । तिष्य एकः पुनर्वसू द्रौ । तेषां भदन्छ द्वित्वं भवति । उदिता तिष्यपुनर्वस्तू । तिष्यपुनर्वसूनामिति किम् । राधानुराधाः । श्रवणधनिष्ठाः । भग्रहणं किम् । तिष्ये जातः । पुनर्वस्वोर्जातो तत्र जात इत्यागतस्याणो भेभ्यो बहुलमित्युप् । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसवो माणवकाः। ननु गौणत्वादेवात्र न भविब्यति । पर्यायार्थ तर्हि भग्रहणम् । पुष्यपुनर्वसू सिध्यपुनवसू इति । बहुवचननिर्देशः किमर्थः । एकवद्भावे मा भूत् । इदं तिष्यपुनर्वसु । इदमेव ज्ञापकं वा तरुमृगादिसूत्रे वेति योगविभागोऽस्ति । द्वन्द्व इति किम् । यस्तिब्यस्ता पुनर्वसू येषां ते तिष्यपुनर्वसवो मुग्धाः । तिष्यादय एवात्र विपर्ययेण प्रतीयन्त इति भविषयत्वमस्ति । जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामिति न वक्तव्यम् । सामान्यविशेषात्मकत्वावस्तुनः । विशेषेष्वनुत्ताकारबुद्धिनिमित्तं सामान्यत्वम् । वृत्ताकारबुद्धिहेतवो विशेषाः। तत्र सामान्यविवक्षायामेकत्वं भवति । सम्पन्न
R
ememestinkinmennam
osam