________________
A
n
imalas
महावृत्तिसहितम् । युक्तवदुसि लिङ्गसंख्ये ॥ ७ ॥ युक्तः प्रकृत्यर्थः । प्रत्ययार्थेन सम्बन्धात् । उसोऽर्थ उस् । उसि युक्त इव लिङ्गसंख्ये भवतः। ईबथै वत् । उसिति नाशस्य संज्ञा । उसा नस्य त्यस्यार्थः साहचर्यादुस् । तत्रोस] प्रकृत्यर्थे इव लिङ्गसंख्ये विधीयते । लिङ्ग स्त्रीपुंनपुंसकानि। संख्या एकत्वधित्वबहुत्वानि । पालो नाम राजा तस्यापत्यं राष्ट्रशब्दाद्राज्ञोऽनित्यञ् । बहुवे तस्योपि कृते पञ्चालाः क्षत्रियाः पुल्लिङ्गा बहुसंख्याः । तेषां निवासी जनपदस्तस्य निवासादूरभवावित्यागतस्याण जनपद् उसित्युस् । क्षत्रियेषु ये लिङ्गसंख्ये ते जनपदेऽपि भवतः । पञ्चाला। कुरवः । अङ्गाः । वङ्गाः। कलिङ्गाः । एवं वरणानामदूरभवः । गोदी नाम हदी तयारदूरभवः । वरणादेरिति उस वरणाः शिरीषाः। गोदौ । अातिदेशाद्विशेषणानामपि तद्वत्ता सिद्धा । पञ्चाला रमणीया बहूना बहुक्षोरघृता बहुमाल्यफलाः। वरणा रमणीयाः । गोदा रमणीयौ । अजातेरिति बक्तव्यम् । पञ्चाला जनपदः । गोदौ ग्रामः । अत्र जनपदग्रामयोजोतित्वान्नातिदेशः । जात्यर्थो जातिः । तेन तद्विशेषणानामपि प्रतिषेधः । पञ्चाला जनपदो रमणीयः । नेदं वक्तव्यम् । सज्ञाप्रामाण्यात् । यथा वर्षी आपो दारा गृहाः सिकता इत्येवमादीनां संज्ञाशब्दानां संज्ञाप्रामाएयादेव स्वलिङ्गन स्पसंख्यया च साधुत्वमेवं जातेरपि भविष्यति । पञ्चालादीनान्तु संज्ञाशब्दानामन्वाख्यानप्रदर्शनार्थमुस्लिङ्गसंख्यातिदेशश्च विधीयते इत्यदाषः । उसीति किम् । आमलकं फलम् । उपि कृते फलेऽथै आमलकशब्दस्य स्त्रीलिङ्गमा भूत् । लिङ्गसंख्ये इति किम् ।
a nmaanandmavasandasTRAKARBARISAWARA