________________
नुच्चित्वा वा दृषिमाडादिनि
जैनेन्द्रव्याकरणम् । त्वा । ग्रथित्वा । ग्रन्थित्वा । गुफित्वा । गुम्फित्वा । मृडादिनियमान्नित्यमकित्ये प्राप्ते विधिर्विभाष्यते। नोऊ इति किम् । गो फत्वा। नन्वत्रापि व्युडोवोहलः संश्चेति विकल्पेन भाव्यम् । एवं तर्हि ऋफेरफित्वा प्रत्युदाहरणम् । थफान्तादिति किम् । संसित्वा॥
वञ्चिलुच्यत्तुषिमृषिकषः ॥ ५ ॥
वञ्चिलचिऋतिवृषिमृषिकृष इत्येतेभ्यः परः क्त्वा सेड या किद्भवति । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतेर्वागइति यदा ईयङ् न भवति तदा ऋतित्वा। अतित्वा । तृषित्वा । तर्षित्वा।मृषित्वा।मर्षित्वा। कृषित्वा । कर्षित्वा। मृडादिनियमान्नित्यमकित्वं प्राप्तम्सेडित्येव । वङ्क्त्वा । मृष्टा । वोदित इति पक्षे नेट् ॥
व्युडो ऽवो हलः संश्च ॥ ६ ॥ सेडिति वर्तते वेति च ॥ उकारोङ इकारोङश्च धोरवकारान्ताद्धलादेः परः संश्च त्तवा च सेटौ वा किती भवतः । उकारेकारोङो ऽजन्तत्वासम्भवाडलग्रहणमा. दिविशेषणम् । दिद्युतिषते । दिद्योतिषते । द्युतिस्वाप्यो. र्जिरिति षस्य जिः।द्युतित्वा ।द्योतित्वा। लिलिखिषति । लिलेखिषति । लिखित्वा । लेखित्वा । सन्न किदेव क्त्वापि सेण्मृडादिनियमादकित् । तयोरप्राप्त कित्वमनेन विधीयमानं विकल्प्यते । व्युङ इति किम् । विवर्तिषते। वर्तित्वा । अव इति किम् । दिदेविषति । देवित्वा । हलादेरिति किम् । एषिषिषति । एषित्वा । सनि एपि कृते द्वित्त्वम् । सेडित्येव । बुभुक्षते । भुक्त्वा ॥